अथर्ववेद - काण्ड 6/ सूक्त 122/ मन्त्र 2
सूक्त - भृगु
देवता - विश्वकर्मा
छन्दः - त्रिष्टुप्
सूक्तम् - तृतीयनाक सूक्त
त॒तं तन्तु॒मन्वेके॑ तरन्ति॒ येषां॑ द॒त्तं पित्र्य॒माय॑नेन। अ॑ब॒न्ध्वेके॒ दद॑तः प्र॒यच्छ॑न्तो॒ दातुं॒ चेच्छिक्षा॒न्त्स स्व॒र्ग ए॒व ॥
स्वर सहित पद पाठत॒तम् । तन्तु॑म् । अनु॑ । एके॑ । त॒र॒न्ति॒ । येषा॑म् । द॒त्तम् । पित्र्य॑म् । आ॒ऽअय॑नेन । अ॒ब॒न्धु । एके॑ । दद॑त: । प्र॒ऽयच्छ॑न्त: । दातु॑म् । च॒ । इत् । शिक्षा॑न् । स: । स्व॒:ऽग: । ए॒व ॥१२२.२॥
स्वर रहित मन्त्र
ततं तन्तुमन्वेके तरन्ति येषां दत्तं पित्र्यमायनेन। अबन्ध्वेके ददतः प्रयच्छन्तो दातुं चेच्छिक्षान्त्स स्वर्ग एव ॥
स्वर रहित पद पाठततम् । तन्तुम् । अनु । एके । तरन्ति । येषाम् । दत्तम् । पित्र्यम् । आऽअयनेन । अबन्धु । एके । ददत: । प्रऽयच्छन्त: । दातुम् । च । इत् । शिक्षान् । स: । स्व:ऽग: । एव ॥१२२.२॥
अथर्ववेद - काण्ड » 6; सूक्त » 122; मन्त्र » 2
Translation -
Some person, whose ancestral debt is repaid by coming - generation, go across following the extended line. Some others, having no kins, repay the debt to the creditors, if they are able do so. That is verily the heaven.