Loading...
ऋग्वेद मण्डल - 7 के सूक्त 100 के मन्त्र
मण्डल के आधार पर मन्त्र चुनें
अष्टक के आधार पर मन्त्र चुनें
  • ऋग्वेद का मुख्य पृष्ठ
  • ऋग्वेद - मण्डल 7/ सूक्त 100/ मन्त्र 3
    ऋषिः - वसिष्ठः देवता - विष्णुः छन्दः - विराट्त्रिष्टुप् स्वरः - धैवतः

    त्रिर्दे॒वः पृ॑थि॒वीमे॒ष ए॒तां वि च॑क्रमे श॒तर्च॑सं महि॒त्वा । प्र विष्णु॑रस्तु त॒वस॒स्तवी॑यान्त्वे॒षं ह्य॑स्य॒ स्थवि॑रस्य॒ नाम॑ ॥

    स्वर सहित पद पाठ

    त्रिः । दे॒वः । पृ॒थि॒वीम् । ए॒षः । ए॒ताम् । वि । च॒क्र॒मे॒ । श॒तऽअ॑र्चसम् । म॒हि॒ऽत्वा । प्र । विष्णुः॑ । अ॒स्तु॒ । त॒वसः॑ । तवी॑यान् । त्वे॒षम् । हि । अ॒स्य॒ । स्थवि॑रस्य । नाम॑ ॥


    स्वर रहित मन्त्र

    त्रिर्देवः पृथिवीमेष एतां वि चक्रमे शतर्चसं महित्वा । प्र विष्णुरस्तु तवसस्तवीयान्त्वेषं ह्यस्य स्थविरस्य नाम ॥

    स्वर रहित पद पाठ

    त्रिः । देवः । पृथिवीम् । एषः । एताम् । वि । चक्रमे । शतऽअर्चसम् । महिऽत्वा । प्र । विष्णुः । अस्तु । तवसः । तवीयान् । त्वेषम् । हि । अस्य । स्थविरस्य । नाम ॥ ७.१००.३

    ऋग्वेद - मण्डल » 7; सूक्त » 100; मन्त्र » 3
    अष्टक » 5; अध्याय » 6; वर्ग » 25; मन्त्र » 3

    पदार्थः -
    (देवः) दिव्यशक्तिः परमात्मा (एताम्) इमां (पृथिवीम्) भुवं (त्रिः) त्रेधा (विचक्रमे) रचयामास (शतर्चसम्) यस्यां शतधा ज्वालाः (महित्वा) यातिविस्तृता (अस्य, स्थविरस्य, विष्णुः, नाम) अस्य प्राचो नाम विष्णुरिति यतः (तवसः, तवीयान्) अयं ते स्वामी यद्वा व्यापकः ॥३॥

    इस भाष्य को एडिट करें
    Top