ऋग्वेद - मण्डल 7/ सूक्त 100/ मन्त्र 5
प्र तत्ते॑ अ॒द्य शि॑पिविष्ट॒ नामा॒र्यः शं॑सामि व॒युना॑नि वि॒द्वान् । तं त्वा॑ गृणामि त॒वस॒मत॑व्या॒न्क्षय॑न्तम॒स्य रज॑सः परा॒के ॥
स्वर सहित पद पाठप्र । तत् । ते॒ । अ॒द्य । शि॒पि॒ऽवि॒ष्ट॒ । नाम॑ । अ॒र्यः । शं॒सा॒मि॒ । व॒युना॑नि । वि॒द्वान् । तम् । त्वा॒ । गृ॒णा॒मि॒ । त॒वस॑म् । अत॑व्यान् । क्षय॑न्तम् । अ॒स्य । रज॑सः । प॒रा॒के ॥
स्वर रहित मन्त्र
प्र तत्ते अद्य शिपिविष्ट नामार्यः शंसामि वयुनानि विद्वान् । तं त्वा गृणामि तवसमतव्यान्क्षयन्तमस्य रजसः पराके ॥
स्वर रहित पद पाठप्र । तत् । ते । अद्य । शिपिऽविष्ट । नाम । अर्यः । शंसामि । वयुनानि । विद्वान् । तम् । त्वा । गृणामि । तवसम् । अतव्यान् । क्षयन्तम् । अस्य । रजसः । पराके ॥ ७.१००.५
ऋग्वेद - मण्डल » 7; सूक्त » 100; मन्त्र » 5
अष्टक » 5; अध्याय » 6; वर्ग » 25; मन्त्र » 5
अष्टक » 5; अध्याय » 6; वर्ग » 25; मन्त्र » 5
विषयः - अथाधोलिखितमन्त्रे वेदो भगवान् विष्णुमीश्वरवाच्यं वर्णयति।
पदार्थः -
(शिपिविष्ट) शिपिभी रश्मिभिर्विष्ट इति ‘शिपिविष्टः’ हे तेजोमय ! (यत्) यतः (ते) तव (अर्यः, नाम) अर्य इति नामास्ति (तम्, त्वा) तादृशम्, त्वां (गृणामि) स्तौमि (तवसम्) स्तवनीयं प्रवृद्धं (रजसः) रजोगुणयुक्ते (पराके) ब्रह्माण्डे (अतव्यान्) निरन्तरगमनशीलेषु विविधलोकेषु (क्षयन्तम्) निवससि (वयुनानि) सर्वज्ञानानि (विद्वान्) जानासि (प्रशंसामि, अद्य) अतो भवन्तं स्तौमि ॥५॥