ऋग्वेद - मण्डल 7/ सूक्त 101/ मन्त्र 1
ऋषिः - वसिष्ठः कुमारो वाग्नेयः
देवता - पर्जन्यः
छन्दः - त्रिष्टुप्
स्वरः - धैवतः
ति॒स्रो वाच॒: प्र व॑द॒ ज्योति॑रग्रा॒ या ए॒तद्दु॒ह्रे म॑धुदो॒घमूध॑: । स व॒त्सं कृ॒ण्वन्गर्भ॒मोष॑धीनां स॒द्यो जा॒तो वृ॑ष॒भो रो॑रवीति ॥
स्वर सहित पद पाठति॒स्रः । वाचः॑ । प्र । व॒द॒ । ज्योतिः॑ऽअग्राः । याः । ए॒तत् । दु॒ह्रे । म॒धु॒ऽदो॒घम् । ऊधः॑ । सः । व॒त्सम् । कृ॒ण्वन् । गर्भ॑म् । ओष॑धीनाम् । स॒द्यः । जा॒तः । वृ॒ष॒भः । रो॒र॒वी॒ति॒ ॥
स्वर रहित मन्त्र
तिस्रो वाच: प्र वद ज्योतिरग्रा या एतद्दुह्रे मधुदोघमूध: । स वत्सं कृण्वन्गर्भमोषधीनां सद्यो जातो वृषभो रोरवीति ॥
स्वर रहित पद पाठतिस्रः । वाचः । प्र । वद । ज्योतिःऽअग्राः । याः । एतत् । दुह्रे । मधुऽदोघम् । ऊधः । सः । वत्सम् । कृण्वन् । गर्भम् । ओषधीनाम् । सद्यः । जातः । वृषभः । रोरवीति ॥ ७.१०१.१
ऋग्वेद - मण्डल » 7; सूक्त » 101; मन्त्र » 1
अष्टक » 5; अध्याय » 7; वर्ग » 1; मन्त्र » 1
अष्टक » 5; अध्याय » 7; वर्ग » 1; मन्त्र » 1
विषयः - अथ प्रसङ्गसङ्गत्या परमात्मैश्वर्यवर्धिका प्रावृट् वर्ण्यते।
पदार्थः -
हे भगवन् ! (तिस्रः, वाचः) ज्ञानप्रदकर्मप्रदोपासना-प्रदात्मकं वाक्त्रयं (प्रवद) उपदिश। (याः) या वाचः (ज्योतिः, अग्राः) उत्कर्षातिशयेन राजमानाः (एतत् ऊधः) एतन्नभोमण्डलात्मकस्तनमण्डलात् (मधुदोघम्) अमृत-स्वरूपा ओषधीः (दुहे) दुहन्ति च तथा (सः) स पर्जन्यः (वत्सम्, कृण्वन्) विद्युतमेव वत्सं कुर्वन् तथा च (ओषधीनाम्, गर्भम्) नानाविधौषधिषु गर्भं धारयन् (सद्यः, जातः) तदानीमेवोत्पद्यमानः (वृषभः) वर्षणशीलो मेघः (रोरवीति) अभीक्ष्णं शब्दायते ॥१॥