Loading...
ऋग्वेद मण्डल - 7 के सूक्त 103 के मन्त्र
मण्डल के आधार पर मन्त्र चुनें
अष्टक के आधार पर मन्त्र चुनें
  • ऋग्वेद का मुख्य पृष्ठ
  • ऋग्वेद - मण्डल 7/ सूक्त 103/ मन्त्र 2
    ऋषिः - वसिष्ठः देवता - मण्डूकाः छन्दः - आर्षीत्रिष्टुप् स्वरः - धैवतः

    दि॒व्या आपो॑ अ॒भि यदे॑न॒माय॒न्दृतिं॒ न शुष्कं॑ सर॒सी शया॑नम् । गवा॒मह॒ न मा॒युर्व॒त्सिनी॑नां म॒ण्डूका॑नां व॒ग्नुरत्रा॒ समे॑ति ॥

    स्वर सहित पद पाठ

    दि॒व्याः । आपः॑ । अ॒भि । यत् । ए॒न॒म् । आय॑न् । दृति॑म् । न । शुष्क॑म् । स॒र॒सी इति॑ । शया॑नम् । गवा॑म् । अह॑ । न । मा॒युः । व॒त्सिनी॑नाम् । म॒ण्डूका॑नाम् । व॒ग्नुः । अत्र॑ । सम् । ए॒ति॒ ॥


    स्वर रहित मन्त्र

    दिव्या आपो अभि यदेनमायन्दृतिं न शुष्कं सरसी शयानम् । गवामह न मायुर्वत्सिनीनां मण्डूकानां वग्नुरत्रा समेति ॥

    स्वर रहित पद पाठ

    दिव्याः । आपः । अभि । यत् । एनम् । आयन् । दृतिम् । न । शुष्कम् । सरसी इति । शयानम् । गवाम् । अह । न । मायुः । वत्सिनीनाम् । मण्डूकानाम् । वग्नुः । अत्र । सम् । एति ॥ ७.१०३.२

    ऋग्वेद - मण्डल » 7; सूक्त » 103; मन्त्र » 2
    अष्टक » 5; अध्याय » 7; वर्ग » 3; मन्त्र » 2

    पदार्थः -
    (अत्र) अस्मिन् वर्षाकाले (मण्डूकानाम्) तस्य मण्डनकर्तॄणां जन्तूनां (वग्नुः) शब्दः (समेति) सम्यक् सञ्चित्य प्रकाशते (न) यथा (वत्सिनीनाम्) प्रमारूपवृत्तिभिः सह वर्तमानानां (गवाम्) इन्द्रियाणां (मायुः) ज्ञानं यथार्थं भवति (न) यथा च (दृतिम्, शुष्कम्) शुष्कं जलपात्रं जलं प्राप्य पुनरपि आर्द्रं भवति तथैव (दिव्याः, आपः, यत्, एनम्) द्युलोकजा आपो यदा (अभि) सर्वतो मण्डूकगणं (सरसी, शयानम्) शुष्कसरसि स्वपन्तं (आयन्) प्राप्नुवन्ति तदा सोऽपि पात्रवत् आर्द्रतां याति ॥२॥

    इस भाष्य को एडिट करें
    Top