Loading...
ऋग्वेद मण्डल - 7 के सूक्त 103 के मन्त्र
मण्डल के आधार पर मन्त्र चुनें
अष्टक के आधार पर मन्त्र चुनें
  • ऋग्वेद का मुख्य पृष्ठ
  • ऋग्वेद - मण्डल 7/ सूक्त 103/ मन्त्र 3
    ऋषिः - वसिष्ठः देवता - मण्डूकाः छन्दः - निचृत्त्रिष्टुप् स्वरः - धैवतः

    यदी॑मेनाँ उश॒तो अ॒भ्यव॑र्षीत्तृ॒ष्याव॑तः प्रा॒वृष्याग॑तायाम् । अ॒ख्ख॒ली॒कृत्या॑ पि॒तरं॒ न पु॒त्रो अ॒न्यो अ॒न्यमुप॒ वद॑न्तमेति ॥

    स्वर सहित पद पाठ

    यत् । ई॒म् । ए॒ना॒न् । उ॒श॒तः । अ॒भि । अव॑र्षीत् । तृ॒ष्याऽव॑तः । प्रा॒वृषि॑ । आऽग॑तायाम् । अ॒ख्ख॒ली॒कृत्य॑ । पि॒तर॑म् । न । पु॒त्रः । अ॒न्यः । अ॒न्यम् । उप॑ । वद॑न्तम् । ए॒ति॒ ॥


    स्वर रहित मन्त्र

    यदीमेनाँ उशतो अभ्यवर्षीत्तृष्यावतः प्रावृष्यागतायाम् । अख्खलीकृत्या पितरं न पुत्रो अन्यो अन्यमुप वदन्तमेति ॥

    स्वर रहित पद पाठ

    यत् । ईम् । एनान् । उशतः । अभि । अवर्षीत् । तृष्याऽवतः । प्रावृषि । आऽगतायाम् । अख्खलीकृत्य । पितरम् । न । पुत्रः । अन्यः । अन्यम् । उप । वदन्तम् । एति ॥ ७.१०३.३

    ऋग्वेद - मण्डल » 7; सूक्त » 103; मन्त्र » 3
    अष्टक » 5; अध्याय » 7; वर्ग » 3; मन्त्र » 3

    पदार्थः -
    (यत्, ईम्) यदा हि (प्रावृषि, आगतायाम्) वर्षाकाल आगते सति (तृष्यावतः, उशतः, एनान्) तृषया जलमिच्छून् जलजन्तून् (अभि, अवर्षीत्) मेघो वर्षति सिञ्चति, तदा (अख्खलीकृत्य) मनोहरशब्दं कृत्वा (पितरम्, न, पुत्रः) पुत्रः पित्रान्तिकमिव (अन्यः, अन्यम्, उपवदन्तम्, एति) एको द्वितीयान्तकं शब्दायमानं गच्छति ॥३॥

    इस भाष्य को एडिट करें
    Top