ऋग्वेद - मण्डल 7/ सूक्त 103/ मन्त्र 4
अ॒न्यो अ॒न्यमनु॑ गृभ्णात्येनोर॒पां प्र॑स॒र्गे यदम॑न्दिषाताम् । म॒ण्डूको॒ यद॒भिवृ॑ष्ट॒: कनि॑ष्क॒न्पृश्नि॑: सम्पृ॒ङ्क्ते हरि॑तेन॒ वाच॑म् ॥
स्वर सहित पद पाठअ॒न्यः । अ॒न्यम् । अनु॑ । गृ॒भ्णा॒ति॒ । ए॒नोः॒ । अ॒पाम् । प्र॒ऽस॒र्गे । यत् । अम॑न्दिषाताम् । म॒ण्डूकः॑ । यत् । अ॒भिऽवृ॑ष्टः । कनि॑स्कन् । पृश्निः॑ । स॒म्ऽपृ॒ङ्क्ते । हरि॑तेन । वाच॑म् ॥
स्वर रहित मन्त्र
अन्यो अन्यमनु गृभ्णात्येनोरपां प्रसर्गे यदमन्दिषाताम् । मण्डूको यदभिवृष्ट: कनिष्कन्पृश्नि: सम्पृङ्क्ते हरितेन वाचम् ॥
स्वर रहित पद पाठअन्यः । अन्यम् । अनु । गृभ्णाति । एनोः । अपाम् । प्रऽसर्गे । यत् । अमन्दिषाताम् । मण्डूकः । यत् । अभिऽवृष्टः । कनिस्कन् । पृश्निः । सम्ऽपृङ्क्ते । हरितेन । वाचम् ॥ ७.१०३.४
ऋग्वेद - मण्डल » 7; सूक्त » 103; मन्त्र » 4
अष्टक » 5; अध्याय » 7; वर्ग » 3; मन्त्र » 4
अष्टक » 5; अध्याय » 7; वर्ग » 3; मन्त्र » 4
पदार्थः -
(यत्) यदा (अपाम्, प्रसर्गे) वृष्टिर्भवति तदा (एनोः) अनयोर्मध्यात् (अन्यः मण्डूकः) एको जलजन्तुः (अन्यम्, अनुगृभ्णाति) द्वितीयमुपेत्योपविशति, तथा (अमन्दिषाताम्) उभावपि सञ्जातहर्षौ भवतः (यत्) यदा च (अभिवृष्टः) अभिसिक्तो भवति तदा (पृश्निः कनिष्कन्) कश्चित्पृश्निवर्ण उत्प्लवमानः (हरितेन, वाचम्, सम्पृङ्क्ते) केनचिद्धरितवर्णेन स्ववाचं संयोजयति ॥४॥