ऋग्वेद - मण्डल 7/ सूक्त 103/ मन्त्र 8
ब्रा॒ह्म॒णास॑: सो॒मिनो॒ वाच॑मक्रत॒ ब्रह्म॑ कृ॒ण्वन्त॑: परिवत्स॒रीण॑म् । अ॒ध्व॒र्यवो॑ घ॒र्मिण॑: सिष्विदा॒ना आ॒विर्भ॑वन्ति॒ गुह्या॒ न के चि॑त् ॥
स्वर सहित पद पाठब्रा॒ह्म॒णासः॑ । सो॒मिनः॑ । वाच॑म् । अ॒क्र॒त॒ । ब्रह्म॑ । कृ॒ण्वन्तः॑ । प॒रि॒व॒त्स॒रीण॑म् । अ॒ध्व॒र्यवः॑ । घ॒र्मिणः॑ । सि॒स्वि॒दा॒नाः । आ॒विः । भ॒व॒न्ति॒ । गुह्याः॑ । न । के । चि॒त् ॥
स्वर रहित मन्त्र
ब्राह्मणास: सोमिनो वाचमक्रत ब्रह्म कृण्वन्त: परिवत्सरीणम् । अध्वर्यवो घर्मिण: सिष्विदाना आविर्भवन्ति गुह्या न के चित् ॥
स्वर रहित पद पाठब्राह्मणासः । सोमिनः । वाचम् । अक्रत । ब्रह्म । कृण्वन्तः । परिवत्सरीणम् । अध्वर्यवः । घर्मिणः । सिस्विदानाः । आविः । भवन्ति । गुह्याः । न । के । चित् ॥ ७.१०३.८
ऋग्वेद - मण्डल » 7; सूक्त » 103; मन्त्र » 8
अष्टक » 5; अध्याय » 7; वर्ग » 4; मन्त्र » 3
अष्टक » 5; अध्याय » 7; वर्ग » 4; मन्त्र » 3
पदार्थः -
(सोमिनः, ब्राह्मणासः) सौम्यचित्ता ब्राह्मणाः (परिवत्सरीणम्) संवत्सरान्ते (ब्रह्म, कृण्वन्तः) ब्रह्मयशः प्रकाशयन्तः (वाचम्, अक्रत) वेदमुच्चारयेयुः (केचित्, गुह्या, अध्वर्यवः) केचिदेकाकिनो व्रतं धारयन्तः (घर्मिणः, सिस्विदानाः) घर्मेण स्विन्नशरीरा अपि (न, आविर्भवन्ति) बहिर्भूताः पराङ्मुखा न भवन्ति ॥८॥