Loading...
ऋग्वेद मण्डल - 7 के सूक्त 61 के मन्त्र
मण्डल के आधार पर मन्त्र चुनें
अष्टक के आधार पर मन्त्र चुनें
  • ऋग्वेद का मुख्य पृष्ठ
  • ऋग्वेद - मण्डल 7/ सूक्त 61/ मन्त्र 4
    ऋषिः - वसिष्ठः देवता - मित्रावरुणौ छन्दः - त्रिष्टुप् स्वरः - धैवतः

    शंसा॑ मि॒त्रस्य॒ वरु॑णस्य॒ धाम॒ शुष्मो॒ रोद॑सी बद्बधे महि॒त्वा । अय॒न्मासा॒ अय॑ज्वनाम॒वीरा॒: प्र य॒ज्ञम॑न्मा वृ॒जनं॑ तिराते ॥

    स्वर सहित पद पाठ

    शंसा॑ । मि॒त्रस्य॑ । वरु॑णस्य । धाम॑ । शुष्मः॑ । रोद॑सी॒ इति॑ । ब॒द्ब॒धे॒ । म॒हि॒ऽत्वा । अय॑न् । मासाः॑ । अय॑ज्वनाम् । अ॒वीराः॑ । प्र । य॒ज्ञऽम॑न्मा । वृ॒जन॑म् । ति॒रा॒ते॒ ॥


    स्वर रहित मन्त्र

    शंसा मित्रस्य वरुणस्य धाम शुष्मो रोदसी बद्बधे महित्वा । अयन्मासा अयज्वनामवीरा: प्र यज्ञमन्मा वृजनं तिराते ॥

    स्वर रहित पद पाठ

    शंसा । मित्रस्य । वरुणस्य । धाम । शुष्मः । रोदसी इति । बद्बधे । महिऽत्वा । अयन् । मासाः । अयज्वनाम् । अवीराः । प्र । यज्ञऽमन्मा । वृजनम् । तिराते ॥ ७.६१.४

    ऋग्वेद - मण्डल » 7; सूक्त » 61; मन्त्र » 4
    अष्टक » 5; अध्याय » 5; वर्ग » 3; मन्त्र » 4

    पदार्थः -
    हे मनुष्याः ! भवन्तः (मित्रस्य) अध्यापकस्य (वरुणस्य) उपदेशकस्य च (धाम) पदं (शंस) प्रशंसन्तु तयोरध्यापकोपदेशकयोः (शुष्मः) बलं (रोदसी) द्यावापृथिव्योर्मध्ये (महित्वा) महत्त्वाय (बद्बधे) संसारमर्यादां बध्नातु (अयज्वनाम्) अयज्ञानाम्  अकर्मणां सन्तानाः (अवीराः) वीरत्वधर्मरहिताः भवेयुः, अन्यच्च तेषां (मासाः) समयाः (अयन्) वीरसन्तानरहिता भवेयुः (प्र यज्ञमन्मा) यज्वानः (वृजनम्) बलं (तिराते) वर्द्धयन्तु ॥४॥

    भावार्थः - परमात्मोपदिशति−भो जनाः ! अस्मिन् जगति अध्यापकानामुपदेशकानाञ्च सर्वोपरि पदं वर्त्तते, अतो भवद्भिः तत्पदस्य सर्वथैव रक्षणं कार्य्यम्, अन्यच्च अयज्ञानामकर्मणां निष्फल एव सन्तानो याति, यतश्च ईश्वराज्ञानुयायिन ईश्वरनियमं पालयन्ति, अतएव ते सुखिनः, ये ईश्वरीयनियमान् न पालयन्ति तेषां मासा दिनान्यापि दुःखेन यान्ति, इत्यभिप्रायेणोक्तं तेषां मासा अवीरा एव अयन् अगच्छन्नित्यर्थः ॥४॥ अस्येदमेव तात्पर्यं यत्सर्वेषां पापानां मूलकारणमेकमज्ञानमेव, अतः पूर्वं भवद्भिः अध्यापकोपदेशकयोरेव वृद्धिः कर्तव्या, कुतः यतश्च यस्मिन्देशे अध्यापकानां उपदेशकानां च बलं न वर्द्धते तस्मिन्देशे अज्ञानस्य मूलोच्छेदोऽपि न भवति प्रत्युत अज्ञानप्राबल्येन सर्वत्रानैश्वर्य्यस्य दारिद्र्यस्य च प्रचारो भवति, अस्य निवृत्त्यर्थं परमात्मना अध्यापकोपदेशका-श्चाव्याहतगतय उत्पादिताः ॥ इत्यभिप्रायेणैव "काम एष क्रोध एष" गी० ३।३७ अत्र भगवता कृष्णेन अज्ञानमूलोच्छेदनमेवोपदिष्टम्, कुतः यतश्च अज्ञानमूलोच्छेदनं विना कदाचिदपि जगति कल्याणं नोत्पद्यते, सम्भाव्यते चेदं यद्भगवता कृष्णेन अयं भावः अस्मादेव मन्त्राद् गृहीतः ॥४॥

    इस भाष्य को एडिट करें
    Top