Loading...
ऋग्वेद मण्डल - 7 के सूक्त 61 के मन्त्र
मण्डल के आधार पर मन्त्र चुनें
अष्टक के आधार पर मन्त्र चुनें
  • ऋग्वेद का मुख्य पृष्ठ
  • ऋग्वेद - मण्डल 7/ सूक्त 61/ मन्त्र 5
    ऋषिः - वसिष्ठः देवता - मित्रावरुणौ छन्दः - निचृत्त्रिष्टुप् स्वरः - धैवतः

    अमू॑रा॒ विश्वा॑ वृषणावि॒मा वां॒ न यासु॑ चि॒त्रं ददृ॑शे॒ न य॒क्षम् । द्रुह॑: सचन्ते॒ अनृ॑ता॒ जना॑नां॒ न वां॑ नि॒ण्यान्य॒चिते॑ अभूवन् ॥

    स्वर सहित पद पाठ

    अमू॑रा । विश्वा॑ । वृ॒ष॒णौ॒ । इ॒माः । वा॒म् । न । यासु॑ । चि॒त्रम् । ददृ॑शे । न । य॒क्षम् । दुहः॑ । स॒च॒न्ते॒ । अनृ॑ता । जना॑नाम् । न । वा॒म् । नि॒ण्यानि॑ । अ॒चिते॑ । अ॒भू॒व॒न् ॥


    स्वर रहित मन्त्र

    अमूरा विश्वा वृषणाविमा वां न यासु चित्रं ददृशे न यक्षम् । द्रुह: सचन्ते अनृता जनानां न वां निण्यान्यचिते अभूवन् ॥

    स्वर रहित पद पाठ

    अमूरा । विश्वा । वृषणौ । इमाः । वाम् । न । यासु । चित्रम् । ददृशे । न । यक्षम् । दुहः । सचन्ते । अनृता । जनानाम् । न । वाम् । निण्यानि । अचिते । अभूवन् ॥ ७.६१.५

    ऋग्वेद - मण्डल » 7; सूक्त » 61; मन्त्र » 5
    अष्टक » 5; अध्याय » 5; वर्ग » 3; मन्त्र » 5

    पदार्थः -
    अध्यापकोपदेशकयोः (यासु) क्रियासु (चित्रम्) वैचित्र्यम्=शक्तेर्वैलक्षण्यमित्यर्थः (न, ददृशे) न दृष्टिगतं भवति (न यक्षम्) यासु न पूजायोग्यः कश्चिद्भावः (इमाः विश्वा) तौ अध्यापकोपदेशकौ (वाम्) युवां प्रति (वृषणौ) सदुपदेशस्य वृष्टिकर्त्तारौ (न) न भवतः, अन्यच्च (वाम्) युवां प्रति (ते) एवंविधा अध्यापकोपदेशकाः ये (द्रुहः सचन्ते) द्विषन्ति तेषां (अनृता) अनृतानि (निण्यानि) वचांसि (जनानाम्) (अचिते) अज्ञानाय (अभूवन्) भवन्ति अत एव (अमूरा) अज्ञानरहिताः भवन्तः सर्वे सदुपदेशकान् स्वीकुर्य्युः ॥५॥

    भावार्थः - परमात्मोपदिशति, हे जनाः ! भवन्तः सर्वे अध्यापकोपदेशकयोर्विषये सर्वदैव अज्ञानरहिता भवेयुः, यतस्ते सर्वे उपदेशका अध्यापकाश्च वाग्मिनः सत्यवादिनश्च भवेयुः अन्यच्च ते स्तुतिनिन्दाकर्त्तारोऽपि न स्युः अर्थात् सर्वदैव सरलप्रकृतयः सत्यवादिनो वेदाध्ययनप्रियाश्च अध्यापकस्य उपदेशकस्य च पदे भवद्भिः स्थापनीयाः ॥५॥

    इस भाष्य को एडिट करें
    Top