ऋग्वेद - मण्डल 7/ सूक्त 62/ मन्त्र 2
स सू॑र्य॒ प्रति॑ पु॒रो न॒ उद्गा॑ ए॒भिः स्तोमे॑भिरेत॒शेभि॒रेवै॑: । प्र नो॑ मि॒त्राय॒ वरु॑णाय वो॒चोऽना॑गसो अर्य॒म्णे अ॒ग्नये॑ च ॥
स्वर सहित पद पाठसः । सू॒र्य॒ । प्रति॑ । पु॒रः । नः॒ । उत् । गाः॒ । ए॒भिः । स्तोमे॑भिः । ए॒त॒शेभिः॑ । एवैः॑ । प्र । नः॒ । मि॒त्राय॑ । वरु॑णाय । वो॒चः॒ । अना॑गसः । अ॒र्य॒म्णे । अ॒ग्नये॑ । च॒ ॥
स्वर रहित मन्त्र
स सूर्य प्रति पुरो न उद्गा एभिः स्तोमेभिरेतशेभिरेवै: । प्र नो मित्राय वरुणाय वोचोऽनागसो अर्यम्णे अग्नये च ॥
स्वर रहित पद पाठसः । सूर्य । प्रति । पुरः । नः । उत् । गाः । एभिः । स्तोमेभिः । एतशेभिः । एवैः । प्र । नः । मित्राय । वरुणाय । वोचः । अनागसः । अर्यम्णे । अग्नये । च ॥ ७.६२.२
ऋग्वेद - मण्डल » 7; सूक्त » 62; मन्त्र » 2
अष्टक » 5; अध्याय » 5; वर्ग » 4; मन्त्र » 2
अष्टक » 5; अध्याय » 5; वर्ग » 4; मन्त्र » 2
विषयः - अधुना तत्साधनान्युपदिश्यन्ते।
पदार्थः -
(सूर्य्य) सरति=सर्वत्र व्याप्नोतीति सूर्य्य=हे परमात्मन् ! (सः) प्रसिद्धस्त्वम् (एभिः, स्तोमेभिः) एतैर्यज्ञैः (नः) अस्माकं (प्रति, पुरः) हृदये (उद्गाः) आगच्छ (एतशेभिः) निष्कामकर्मभिः (एवैः) निश्चयेन (नः) अस्माकं (मित्राय) अध्यापकाय (वरुणाय) उपदेशकाय (अर्यम्णे) न्यायकारिणे (अग्नये) विज्ञानवते च (प्रवोचः) धर्ममुपदिश, यतः (अनागसः) निष्कामकर्मणां संसारे प्रचारो भवेत् ॥२॥
भावार्थः - जपयज्ञो योगयज्ञो ध्यानयज्ञश्चैवंविधाः प्रचुराः यज्ञाः परमात्मप्राप्तेः साधनत्वेन विवक्षिताः यैः यज्ञैः निष्कामकर्मद्वारेण परमात्मप्राप्तिर्भवति, अस्मिन् मन्त्रे परमात्मा अध्यापकानुपदेशकान् सत्कर्मणो विज्ञानिनश्च इदमुपदिशति यद्भवद्भिः यज्ञकर्मोपदेश्यं यतो जगति सर्वत्र निष्कामकर्मणां प्रचारो भवेत् ॥२॥
इस भाष्य को एडिट करें