ऋग्वेद - मण्डल 7/ सूक्त 64/ मन्त्र 5
ए॒ष स्तोमो॑ वरुण मित्र॒ तुभ्यं॒ सोम॑: शु॒क्रो न वा॒यवे॑ऽयामि । अ॒वि॒ष्टं धियो॑ जिगृ॒तं पुरं॑धीर्यू॒यं पा॑त स्व॒स्तिभि॒: सदा॑ नः ॥
स्वर सहित पद पाठए॒षः । स्तोमः॑ । व॒रु॒ण॒ । मि॒त्र॒ । तुभ्य॑म् । सोमः॑ । शु॒क्रः । न । वा॒यवे॑ । अ॒या॒मि॒ । अ॒वि॒ष्टम् । धियः॑ । जि॒गृ॒तम् । पुर॑म्ऽधीः । यू॒यम् । पा॒त॒ । स्व॒स्तिऽभिः॑ । सदा॑ । नः॒ ॥
स्वर रहित मन्त्र
एष स्तोमो वरुण मित्र तुभ्यं सोम: शुक्रो न वायवेऽयामि । अविष्टं धियो जिगृतं पुरंधीर्यूयं पात स्वस्तिभि: सदा नः ॥
स्वर रहित पद पाठएषः । स्तोमः । वरुण । मित्र । तुभ्यम् । सोमः । शुक्रः । न । वायवे । अयामि । अविष्टम् । धियः । जिगृतम् । पुरम्ऽधीः । यूयम् । पात । स्वस्तिऽभिः । सदा । नः ॥ ७.६४.५
ऋग्वेद - मण्डल » 7; सूक्त » 64; मन्त्र » 5
अष्टक » 5; अध्याय » 5; वर्ग » 6; मन्त्र » 5
अष्टक » 5; अध्याय » 5; वर्ग » 6; मन्त्र » 5
पदार्थः -
(वरुण, मित्र) हे अध्यापकोपदेशकौ ! (तुभ्यम्) भवदर्थम् (एषः, स्तोमः) अयं ब्रह्मयज्ञः (सोमः) साधुस्वभावस्य (शुक्रः) बलस्य च दाता भवतु अन्यच्च (वायवे, न) आदित्य इव (अयामि) प्रार्थये (धियः) भवद्बुद्धयः (अविष्टं) श्रेष्ठकर्मणि (जिगृतम्) सदैव वर्तेरन् अन्यच्च भवन्तः (पुरन्धीः) ऐश्वर्य्यं प्राप्नुयुः (यूयं) भवन्तः (नः) अस्मान्प्रति (सदा) सर्वदैव (स्वस्तिभिः) स्वस्तिवाचनादिवाग्भिः (पात) रक्षन्तु ॥५॥ इति चतुष्षष्टितमं सूक्तं षष्ठो वर्गश्च समाप्तः।