ऋग्वेद - मण्डल 7/ सूक्त 65/ मन्त्र 5
ए॒ष स्तोमो॑ वरुण मित्र॒ तुभ्यं॒ सोम॑: शु॒क्रो न वा॒यवे॑ऽयामि । अ॒वि॒ष्टं धियो॑ जिगृ॒तं पुरं॑धीर्यू॒यं पा॑त स्व॒स्तिभि॒: सदा॑ नः ॥
स्वर सहित पद पाठए॒षः । स्तोमः॑ । व॒रु॒ण॒ । मि॒त्र॒ । तुभ्य॑म् । सोमः॑ । शु॒क्रः । न । वा॒यवे॑ । अ॒या॒मि॒ । अ॒वि॒ष्टम् । धियः॑ । जि॒गृ॒तम् । पुर॑म्ऽधीः । यू॒यम् । पा॒त॒ । स्व॒स्तिऽभिः॑ । सदा॑ । नः॒ ॥
स्वर रहित मन्त्र
एष स्तोमो वरुण मित्र तुभ्यं सोम: शुक्रो न वायवेऽयामि । अविष्टं धियो जिगृतं पुरंधीर्यूयं पात स्वस्तिभि: सदा नः ॥
स्वर रहित पद पाठएषः । स्तोमः । वरुण । मित्र । तुभ्यम् । सोमः । शुक्रः । न । वायवे । अयामि । अविष्टम् । धियः । जिगृतम् । पुरम्ऽधीः । यूयम् । पात । स्वस्तिऽभिः । सदा । नः ॥ ७.६५.५
ऋग्वेद - मण्डल » 7; सूक्त » 65; मन्त्र » 5
अष्टक » 5; अध्याय » 5; वर्ग » 7; मन्त्र » 5
अष्टक » 5; अध्याय » 5; वर्ग » 7; मन्त्र » 5
पदार्थः -
(वरुण, मित्र) हे वरणीय तथा सर्वप्रियतम परमात्मन् ! (एषः, स्तोमः) इमं विज्ञानयज्ञं (तुभ्यम्) भवदर्थं (अयामि) समर्पयामि भवान् मह्यं (सोमः) सौम्यस्वभावं (शुक्रः) बलं प्रयच्छतु अन्यच्च (वायवे, न) आदित्यवत् प्रकाशम्प्रार्थयामि अस्माकं (धियः) कर्म्माणि (अविष्टं) रक्षतु अस्माकं (पुरन्धीः) स्तुतीः (जिगृतं) स्वीकरोतु (यूयं) भवान् (स्वस्तिभिः) स्वस्तिवाचनवचोभिः (नः) अस्मान्प्रति (सदा) सदैव (पात) रक्षतु ॥ यूयं पात इत्यादि बहुवचनमादरार्थम्, ईश्वरे बहुत्वाभावात्, अर्थात् ईश्वरे नानात्वं नास्ति अतो बहुवचनमपि एकत्वसूचकमित्यर्थः ॥५॥ पञ्चषष्टितमं सूक्तं सप्तमो वर्गश्च समाप्तः ॥