Loading...
ऋग्वेद मण्डल - 7 के सूक्त 65 के मन्त्र
मण्डल के आधार पर मन्त्र चुनें
अष्टक के आधार पर मन्त्र चुनें
  • ऋग्वेद का मुख्य पृष्ठ
  • ऋग्वेद - मण्डल 7/ सूक्त 65/ मन्त्र 4
    ऋषिः - वसिष्ठः देवता - मित्रावरुणौ छन्दः - निचृत्त्रिष्टुप् स्वरः - धैवतः

    आ नो॑ मित्रावरुणा ह॒व्यजु॑ष्टिं घृ॒तैर्गव्यू॑तिमुक्षत॒मिळा॑भिः । प्रति॑ वा॒मत्र॒ वर॒मा जना॑य पृणी॒तमु॒द्नो दि॒व्यस्य॒ चारो॑: ॥

    स्वर सहित पद पाठ

    आ । नः॒ । मि॒त्रा॒व॒रु॒णा॒ । ह॒व्यऽजु॑ष्टिम् । घृ॒तैः । गव्यू॑तिम् । उ॒क्ष॒त॒म् । इळा॑भिः । प्रति॑ । वा॒म् । अत्र॑ । वर॑म् । आ । जना॑य । पृ॒णी॒तम् । उ॒द्नः । दि॒व्यस्य॑ । चारोः॑ ॥


    स्वर रहित मन्त्र

    आ नो मित्रावरुणा हव्यजुष्टिं घृतैर्गव्यूतिमुक्षतमिळाभिः । प्रति वामत्र वरमा जनाय पृणीतमुद्नो दिव्यस्य चारो: ॥

    स्वर रहित पद पाठ

    आ । नः । मित्रावरुणा । हव्यऽजुष्टिम् । घृतैः । गव्यूतिम् । उक्षतम् । इळाभिः । प्रति । वाम् । अत्र । वरम् । आ । जनाय । पृणीतम् । उद्नः । दिव्यस्य । चारोः ॥ ७.६५.४

    ऋग्वेद - मण्डल » 7; सूक्त » 65; मन्त्र » 4
    अष्टक » 5; अध्याय » 5; वर्ग » 7; मन्त्र » 4

    पदार्थः -
    (मित्रावरुणा) हे सर्वप्रिय तथा सर्ववरणीय शक्तिमन्परमात्मन् ! (नः) अस्माकं (हव्यजुष्टिं गव्यूतिम्) यज्ञभूमिं (आ) सम्यक्प्रकारेण (घृतैः, इळाभिः) घृतैस्तथा अन्नैश्च (उक्षतं) सिञ्चतं (वां प्रति) युवां प्रति अत्र अस्मिँल्लोके (वरं) उत्कृष्टम्, कार्य्यकारिणः (नः) अस्मान्प्रति (उद्नः) स्नेहस्य भावं (पृणीतं) प्रयच्छतु प्रत्यहं भवत इयमेव प्रार्थना यत् (दिव्यस्य चारोः) चरणशीलस्य द्युलोकस्य वयमव्याहतगतयो भवेम ॥४॥

    इस भाष्य को एडिट करें
    Top