ऋग्वेद - मण्डल 7/ सूक्त 72/ मन्त्र 5
आ प॒श्चाता॑न्नास॒त्या पु॒रस्ता॒दाश्वि॑ना यातमध॒रादुद॑क्तात् । आ वि॒श्वत॒: पाञ्च॑जन्येन रा॒या यू॒यं पा॑त स्व॒स्तिभि॒: सदा॑ नः ॥
स्वर सहित पद पाठआ । प॒श्चाता॑त् । ना॒स॒त्या॒ । आ । पु॒रस्ता॑त् । आ । अ॒श्वि॒ना॒ । या॒त॒म् । अ॒ध॒रात् । उद॑क्तात् । आ । वि॒श्वतः॑ । पाञ्च॑ऽजन्येन । रा॒या । यू॒यम् । पा॒त॒ । स्व॒स्तिऽभिः॑ । सदा॑ । नः॒ ॥
स्वर रहित मन्त्र
आ पश्चातान्नासत्या पुरस्तादाश्विना यातमधरादुदक्तात् । आ विश्वत: पाञ्चजन्येन राया यूयं पात स्वस्तिभि: सदा नः ॥
स्वर रहित पद पाठआ । पश्चातात् । नासत्या । आ । पुरस्तात् । आ । अश्विना । यातम् । अधरात् । उदक्तात् । आ । विश्वतः । पाञ्चऽजन्येन । राया । यूयम् । पात । स्वस्तिऽभिः । सदा । नः ॥ ७.७२.५
ऋग्वेद - मण्डल » 7; सूक्त » 72; मन्त्र » 5
अष्टक » 5; अध्याय » 5; वर्ग » 19; मन्त्र » 5
अष्टक » 5; अध्याय » 5; वर्ग » 19; मन्त्र » 5
विषयः - अथ विद्वदुपदेशकैः कल्याणं कर्तुमुपदिशति।
पदार्थः -
(नासत्या) हे सत्यवादिनो विद्वांसः ! भवन्तः (आ पश्चातात्) प्रतीच्याः (आ पुरस्तात्) पूर्वस्याः (अधरात्) अधस्तात् (उदक्तात्) उपरिष्टात् किं बहुना (आ विश्वतः) सर्वतः (पाञ्चजन्येन) पञ्चविधमनुष्याणां हितं (राया) धनेन वर्द्धयन्तु अथ (अश्विना) हे अध्यापकोपदेशकाः ! यूयं पञ्चप्रकारान् जनान् (आयातम्) प्राप्नुत प्राप्य च इदं प्रार्थयत “हे परमात्मन् ! (यूयम्) भवान् (सदा) सर्वदा (स्वस्तिभिः) शुभप्रदाभिः वाग्भिः (नः) अस्माकमैश्वर्य्यं (पात) रक्षतु” ॥५॥ इति द्वासप्ततितमं सूक्तमेकोनविंशो वर्गश्च समाप्तः ॥