Loading...
ऋग्वेद मण्डल - 7 के सूक्त 76 के मन्त्र
मण्डल के आधार पर मन्त्र चुनें
अष्टक के आधार पर मन्त्र चुनें
  • ऋग्वेद का मुख्य पृष्ठ
  • ऋग्वेद - मण्डल 7/ सूक्त 76/ मन्त्र 5
    ऋषिः - वसिष्ठः देवता - उषाः छन्दः - निचृत्त्रिष्टुप् स्वरः - धैवतः

    स॒मा॒न ऊ॒र्वे अधि॒ संग॑तास॒: सं जा॑नते॒ न य॑तन्ते मि॒थस्ते । ते दे॒वानां॒ न मि॑नन्ति व्र॒तान्यम॑र्धन्तो॒ वसु॑भि॒र्याद॑मानाः ॥

    स्वर सहित पद पाठ

    स॒मा॒ने । ऊ॒र्वे । अधि॑ । सम्ऽग॑तासः । सम् । जा॒न॒ते॒ । न । य॒त॒न्ते॒ । मि॒थः । ते । ते । दे॒वाना॑म् । न । मि॒न॒न्ति॒ । व्र॒तानि॑ । अम॑र्धन्तः । वसु॑ऽभिः । याद॑मानाः ॥


    स्वर रहित मन्त्र

    समान ऊर्वे अधि संगतास: सं जानते न यतन्ते मिथस्ते । ते देवानां न मिनन्ति व्रतान्यमर्धन्तो वसुभिर्यादमानाः ॥

    स्वर रहित पद पाठ

    समाने । ऊर्वे । अधि । सम्ऽगतासः । सम् । जानते । न । यतन्ते । मिथः । ते । ते । देवानाम् । न । मिनन्ति । व्रतानि । अमर्धन्तः । वसुऽभिः । यादमानाः ॥ ७.७६.५

    ऋग्वेद - मण्डल » 7; सूक्त » 76; मन्त्र » 5
    अष्टक » 5; अध्याय » 5; वर्ग » 23; मन्त्र » 5

    पदार्थः -
    (देवानाम्) ये विदुषां (व्रतानि) वेदोक्तस्वाध्यायादि- नियमान् (न मिनन्ति) न लुलुम्पन्ति (ते) ते पुरुषाः (अमर्धन्तः) अहिंसका भवन्तः (वसुभिः) वेदवाग्रूपधनैः (यादमानाः) यात्रां कुर्वन्तः (मिथः) परस्परं समेत्य (यतन्ते) यत्नं कुर्वन्ति (ते) ते हि जनाः (सञ्जानते) प्रतिज्ञामेव (न) न कुर्वन्ति, किन्तु (सङ्गतासः) सङ्गता भूत्वा (अधि ऊर्वे) बलादिन्द्रियसंयमे (समाने) तुल्यभावेन यतन्ते ॥५॥

    इस भाष्य को एडिट करें
    Top