ऋग्वेद - मण्डल 7/ सूक्त 76/ मन्त्र 4
त इद्दे॒वानां॑ सध॒माद॑ आसन्नृ॒तावा॑नः क॒वय॑: पू॒र्व्यास॑: । गू॒ळ्हं ज्योति॑: पि॒तरो॒ अन्व॑विन्दन्त्स॒त्यम॑न्त्रा अजनयन्नु॒षास॑म् ॥
स्वर सहित पद पाठते । इत् । दे॒वाना॑म् । स॒ध॒ऽमादः॑ । आ॒स॒न् । ऋ॒तऽवा॑नः । क॒वयः॑ । पू॒र्व्यासः॑ । गू॒ळ्हम् । ज्योतिः॑ । पि॒तरः॑ । अनु॑ । अ॒वि॒न्द॒न् । स॒त्यऽम॑न्त्राः । अ॒ज॒न॒य॒न् । उ॒षस॑म् ॥
स्वर रहित मन्त्र
त इद्देवानां सधमाद आसन्नृतावानः कवय: पूर्व्यास: । गूळ्हं ज्योति: पितरो अन्वविन्दन्त्सत्यमन्त्रा अजनयन्नुषासम् ॥
स्वर रहित पद पाठते । इत् । देवानाम् । सधऽमादः । आसन् । ऋतऽवानः । कवयः । पूर्व्यासः । गूळ्हम् । ज्योतिः । पितरः । अनु । अविन्दन् । सत्यऽमन्त्राः । अजनयन् । उषसम् ॥ ७.७६.४
ऋग्वेद - मण्डल » 7; सूक्त » 76; मन्त्र » 4
अष्टक » 5; अध्याय » 5; वर्ग » 23; मन्त्र » 4
अष्टक » 5; अध्याय » 5; वर्ग » 23; मन्त्र » 4
विषयः - इत आरभ्य ब्रह्मवेतृ विदुषां कर्त्तव्यं वर्ण्यते।
पदार्थः -
(देवानाम् सधमादः) विदुषां समुदायात्मके यज्ञे (ते इत्) त एव (ऋतावानः) सत्यवादिनः (कवयः) विचक्षणाः (पूर्व्यासः) पुरातनाः (आसन्) अमंसत, ये (गूळ्हम्) गहनं ज्योतिःस्वरूपं परमात्मानं (अनु अविन्दन्) साधु अज्ञासिषुः (सत्यमन्त्राः) ते सत्योपदेशकर्तारः (पितरः) पितरो वृद्धाः (उषसम्) परमात्मप्रकाशं (अजनयन्) प्रादुरबीभवन् ॥४॥