ऋग्वेद - मण्डल 7/ सूक्त 78/ मन्त्र 3
ए॒ता उ॒ त्याः प्रत्य॑दृश्रन्पु॒रस्ता॒ज्ज्योति॒र्यच्छ॑न्तीरु॒षसो॑ विभा॒तीः । अजी॑जन॒न्त्सूर्यं॑ य॒ज्ञम॒ग्निम॑पा॒चीनं॒ तमो॑ अगा॒दजु॑ष्टम् ॥
स्वर सहित पद पाठए॒ताः । ऊँ॒ इति॑ । त्याः । प्रति॑ । अ॒दृ॒श्र॒न् । पु॒रस्ता॑त् । ज्योतिः॑ । यच्छ॑न्तीः । उ॒षसः॑ । वि॒ऽभा॒तीः । अजी॑जनन् । सूर्य॑म् । य॒ज्ञम् । अ॒ग्निम् । अ॒पा॒चीन॑म् । तमः॑ । अ॒गा॒त् । अजु॑ष्टम् ॥
स्वर रहित मन्त्र
एता उ त्याः प्रत्यदृश्रन्पुरस्ताज्ज्योतिर्यच्छन्तीरुषसो विभातीः । अजीजनन्त्सूर्यं यज्ञमग्निमपाचीनं तमो अगादजुष्टम् ॥
स्वर रहित पद पाठएताः । ऊँ इति । त्याः । प्रति । अदृश्रन् । पुरस्तात् । ज्योतिः । यच्छन्तीः । उषसः । विऽभातीः । अजीजनन् । सूर्यम् । यज्ञम् । अग्निम् । अपाचीनम् । तमः । अगात् । अजुष्टम् ॥ ७.७८.३
ऋग्वेद - मण्डल » 7; सूक्त » 78; मन्त्र » 3
अष्टक » 5; अध्याय » 5; वर्ग » 25; मन्त्र » 3
अष्टक » 5; अध्याय » 5; वर्ग » 25; मन्त्र » 3
पदार्थः -
(उषसः) ज्ञानस्वरूपः परमात्मा (ज्योतिः यच्छन्तीः) ज्ञानं प्रकटयन् (विभातीः) रोचमानोऽस्ति तथा तज्ज्ञानम् (प्रति) मनुष्यान्प्रति (पुरस्तात् अदृश्रन्) सर्वस्मात्पूर्वं दृश्यते (एताः त्याः) इमाः परमात्मशक्तयः (सूर्यम् यज्ञम् अग्निम्) सूर्यं यज्ञं वह्निं च (अजीजनन्) उत्पादयन्ति (उ) तथा (अजुष्टम् तमः) अप्रियं तमः (अपाचीनम्) अपहृत्य (अगात्) ज्ञानात्मकप्रकाशं विस्तृण्वन्ति ॥३॥