ऋग्वेद - मण्डल 7/ सूक्त 78/ मन्त्र 4
अचे॑ति दि॒वो दु॑हि॒ता म॒घोनी॒ विश्वे॑ पश्यन्त्यु॒षसं॑ विभा॒तीम् । आस्था॒द्रथं॑ स्व॒धया॑ यु॒ज्यमा॑न॒मा यमश्वा॑सः सु॒युजो॒ वह॑न्ति ॥
स्वर सहित पद पाठअचे॑ति । दि॒वः । दु॒हि॒ता । म॒घोनी॑ । विश्वे॑ । प॒श्य॒न्ति॒ । उ॒षस॑म् । वि॒ऽभा॒तीम् । आ । अ॒स्था॒त् । रथ॑म् । स्व॒धया॑ । यु॒ज्यमा॑नम् । आ । यम् । अश्वा॑सः । सु॒ऽयुजः॑ । वह॑न्ति ॥
स्वर रहित मन्त्र
अचेति दिवो दुहिता मघोनी विश्वे पश्यन्त्युषसं विभातीम् । आस्थाद्रथं स्वधया युज्यमानमा यमश्वासः सुयुजो वहन्ति ॥
स्वर रहित पद पाठअचेति । दिवः । दुहिता । मघोनी । विश्वे । पश्यन्ति । उषसम् । विऽभातीम् । आ । अस्थात् । रथम् । स्वधया । युज्यमानम् । आ । यम् । अश्वासः । सुऽयुजः । वहन्ति ॥ ७.७८.४
ऋग्वेद - मण्डल » 7; सूक्त » 78; मन्त्र » 4
अष्टक » 5; अध्याय » 5; वर्ग » 25; मन्त्र » 4
अष्टक » 5; अध्याय » 5; वर्ग » 25; मन्त्र » 4
पदार्थः -
(सुयुजः) सुष्ठुदीप्तिमत्यः परमात्मशक्तयः (अश्वासः) तीक्ष्णगत्या (यम् रथम्) यं स्यन्दनं (आ) सम्यक् (वहन्ति) गमयन्ति, ताभिः (युज्यमानम्) सम्मिलितां (दिवः दुहिता) द्युलोकस्य दुहितरं (उषसम्) उषसं (विश्वे पश्यन्ति) सर्वेऽवलोकन्ते, या (अचेति) दिव्यज्योतिःसम्पन्ना (मघोनी) ऐश्वर्ययुक्ता (विभातीम्) प्रकाशमाना (स्वधया) अन्नादिविविधपदार्थसम्पन्ना तथा या (आ) सम्यक् (अस्थात्) दृढतया तिष्ठति ॥४॥