ऋग्वेद - मण्डल 7/ सूक्त 79/ मन्त्र 2
व्य॑ञ्जते दि॒वो अन्ते॑ष्व॒क्तून्विशो॒ न यु॒क्ता उ॒षसो॑ यतन्ते । सं ते॒ गाव॒स्तम॒ आ व॑र्तयन्ति॒ ज्योति॑र्यच्छन्ति सवि॒तेव॑ बा॒हू ॥
स्वर सहित पद पाठवि । अ॒ञ्ज॒ते॒ । दि॒वः । अन्ते॑षु । अ॒क्तून् । विशः॑ । न । युक्ताः॑ । उ॒षसः॑ । य॒त॒न्ते॒ । सम् । ते॒ । गावः॑ । तमः॑ । आ । व॒र्त॒य॒न्ति॒ । ज्योतिः॑ । य॒च्छ॒न्ति॒ । स॒वि॒ताऽइ॑व । बा॒हू इति॑ ॥
स्वर रहित मन्त्र
व्यञ्जते दिवो अन्तेष्वक्तून्विशो न युक्ता उषसो यतन्ते । सं ते गावस्तम आ वर्तयन्ति ज्योतिर्यच्छन्ति सवितेव बाहू ॥
स्वर रहित पद पाठवि । अञ्जते । दिवः । अन्तेषु । अक्तून् । विशः । न । युक्ताः । उषसः । यतन्ते । सम् । ते । गावः । तमः । आ । वर्तयन्ति । ज्योतिः । यच्छन्ति । सविताऽइव । बाहू इति ॥ ७.७९.२
ऋग्वेद - मण्डल » 7; सूक्त » 79; मन्त्र » 2
अष्टक » 5; अध्याय » 5; वर्ग » 26; मन्त्र » 2
अष्टक » 5; अध्याय » 5; वर्ग » 26; मन्त्र » 2
पदार्थः -
हे परमात्मन् ! भवान् (दिवः अन्तेषु) द्युपर्यन्तप्रदेशेषु (अक्तून्) सूर्य्यादिप्रकाशैः (न) सदृशः (विशः अञ्जते) सर्वाः प्रजाः प्रकटयन् (वि) सम्यक् (उषसः युक्ताः) प्रकाशिताः (यतन्ते) करोति (ते गावः) तव ज्ञानस्वरूपप्रकाशः (तमः) अज्ञानस्वरूपान्धकारं (आ) सम्यक् (वर्तयन्ति) नाशयति (सविता इव बाहू) सूर्यरश्मिवत् (ज्योतिः) तव तेजः (सम् यच्छन्ति) सर्वं भासयति ॥२॥