ऋग्वेद - मण्डल 7/ सूक्त 82/ मन्त्र 9
अ॒स्माक॑मिन्द्रावरुणा॒ भरे॑भरे पुरोयो॒धा भ॑वतं कृष्ट्योजसा । यद्वां॒ हव॑न्त उ॒भये॒ अध॑ स्पृ॒धि नर॑स्तो॒कस्य॒ तन॑यस्य सा॒तिषु॑ ॥
स्वर सहित पद पाठअ॒स्माक॑म् । इ॒न्द्रा॒व॒रु॒णा॒ । भरे॑ऽभरे । पु॒रः॒ऽयो॒धा । भ॒व॒त॒म् । कृ॒ष्टि॒ऽओ॒ज॒सा॒ । यत् । वा॒म् । हव॑न्ते । उ॒भये॑ । अध॑ । स्पृ॒धि । नरः॑ । तो॒कस्य॑ । तन॑यस्य । सा॒तिषु॑ ॥
स्वर रहित मन्त्र
अस्माकमिन्द्रावरुणा भरेभरे पुरोयोधा भवतं कृष्ट्योजसा । यद्वां हवन्त उभये अध स्पृधि नरस्तोकस्य तनयस्य सातिषु ॥
स्वर रहित पद पाठअस्माकम् । इन्द्रावरुणा । भरेऽभरे । पुरःऽयोधा । भवतम् । कृष्टिऽओजसा । यत् । वाम् । हवन्ते । उभये । अध । स्पृधि । नरः । तोकस्य । तनयस्य । सातिषु ॥ ७.८२.९
ऋग्वेद - मण्डल » 7; सूक्त » 82; मन्त्र » 9
अष्टक » 5; अध्याय » 6; वर्ग » 3; मन्त्र » 4
अष्टक » 5; अध्याय » 6; वर्ग » 3; मन्त्र » 4
पदार्थः -
(इन्द्रावरुणा) भो विद्वांसः ! यूयं (भरे भरे) सङ्ग्रामे सङ्ग्रामे (अस्माकम्) अस्माकं (पुरोयोधा) पुरस्ताद्योद्धारः (भवतम्) भवत (कृष्ट्योजसा) हे शत्रुनाशक्षमबलवन्तः ? (यत्) ये (नरः) मनुष्याः (वाम्) युष्मान् (स्पृधि) युद्धे (तोकस्य, तनयस्य) पुत्रपौत्रादीनां (सातिषु) रक्षायै (हवन्ते) आह्वयन्ति तान् रक्षत ॥९॥