ऋग्वेद - मण्डल 7/ सूक्त 82/ मन्त्र 10
अ॒स्मे इन्द्रो॒ वरु॑णो मि॒त्रो अ॑र्य॒मा द्यु॒म्नं य॑च्छन्तु॒ महि॒ शर्म॑ स॒प्रथ॑: । अ॒व॒ध्रं ज्योति॒रदि॑तेॠता॒वृधो॑ दे॒वस्य॒ श्लोकं॑ सवि॒तुर्म॑नामहे ॥
स्वर सहित पद पाठअ॒स्मे इति॑ । इन्द्रः॑ । वरु॑णः । मि॒त्रः । अ॒र्य॒मा । द्यु॒म्नम् । य॒च्छ॒न्तु॒ । महि॑ । शर्म॑ । स॒ऽप्रथः॑ । अ॒व॒ध्रम् । ज्योतिः॑ । अदि॑तेः । ऋ॒त॒ऽवृधः॑ । दे॒वस्य॑ । श्लोक॑म् । स॒वि॒तुः । म॒ना॒म॒हे॒ ॥
स्वर रहित मन्त्र
अस्मे इन्द्रो वरुणो मित्रो अर्यमा द्युम्नं यच्छन्तु महि शर्म सप्रथ: । अवध्रं ज्योतिरदितेॠतावृधो देवस्य श्लोकं सवितुर्मनामहे ॥
स्वर रहित पद पाठअस्मे इति । इन्द्रः । वरुणः । मित्रः । अर्यमा । द्युम्नम् । यच्छन्तु । महि । शर्म । सऽप्रथः । अवध्रम् । ज्योतिः । अदितेः । ऋतऽवृधः । देवस्य । श्लोकम् । सवितुः । मनामहे ॥ ७.८२.१०
ऋग्वेद - मण्डल » 7; सूक्त » 82; मन्त्र » 10
अष्टक » 5; अध्याय » 6; वर्ग » 3; मन्त्र » 5
अष्टक » 5; अध्याय » 6; वर्ग » 3; मन्त्र » 5
विषयः - अथ राजपुरुषेभ्यो धनं परमात्मनो रक्षा च प्रार्थ्यते।
पदार्थः -
(इन्द्रः) वैद्युतविद्यावेत्तारः (वरुणः) जलविद्यावेत्तारः (मित्रः) जगतः सुहृदः (अर्यमा) न्यायकर्तारश्च ये राजपुरुषास्ते (अस्मे) अस्मभ्यम् (द्युम्नम्) ऐश्वर्यं (यच्छन्तु) ददतु, तथा च (सप्रथः, महि, शर्म) सुप्रसिद्धं महत् सुखं (ज्योतिः) परमात्मा नित्यं ददातु (अवध्रम्) अस्मान्सदा रक्षतु, यस्माद्भवम् (अदितेः) अखण्डनीयस्य (ऋतावृधः) सत्यरूपयज्ञस्याधारं (देवस्य) दिव्यशक्तिसम्पन्नं (सवितुः) स्वतःप्रकाशं (श्लोकम्) पुण्यस्तुतिं (मनामहे) गायेम शश्वत् ॥१०॥ इति त्र्यशीतितमं सूक्तं तृतीयो वर्गश्च समाप्तः ॥