ऋग्वेद - मण्डल 7/ सूक्त 83/ मन्त्र 1
यु॒वां न॑रा॒ पश्य॑मानास॒ आप्यं॑ प्रा॒चा ग॒व्यन्त॑: पृथु॒पर्श॑वो ययुः । दासा॑ च वृ॒त्रा ह॒तमार्या॑णि च सु॒दास॑मिन्द्रावरु॒णाव॑सावतम् ॥
स्वर सहित पद पाठयु॒वम् । न॒रा॒ । पश्य॑मानासः । आप्य॑म् । प्रा॒चा । गव्यन्तः॑ । पृ॒थु॒ऽपर्श॑वः । य॒युः॒ । दासा॑ । च॒ । वृ॒त्रा । ह॒तम् । आर्या॑णि । च॒ । सु॒ऽदास॑म् । इ॒न्द्रा॒व॒रु॒णा॒ । अव॑सा । अ॒व॒त॒म् ॥
स्वर रहित मन्त्र
युवां नरा पश्यमानास आप्यं प्राचा गव्यन्त: पृथुपर्शवो ययुः । दासा च वृत्रा हतमार्याणि च सुदासमिन्द्रावरुणावसावतम् ॥
स्वर रहित पद पाठयुवम् । नरा । पश्यमानासः । आप्यम् । प्राचा । गव्यन्तः । पृथुऽपर्शवः । ययुः । दासा । च । वृत्रा । हतम् । आर्याणि । च । सुऽदासम् । इन्द्रावरुणा । अवसा । अवतम् ॥ ७.८३.१
ऋग्वेद - मण्डल » 7; सूक्त » 83; मन्त्र » 1
अष्टक » 5; अध्याय » 6; वर्ग » 4; मन्त्र » 1
अष्टक » 5; अध्याय » 6; वर्ग » 4; मन्त्र » 1
विषयः - अथ राजधर्मं वर्णयन्तः सैनिकेभ्यो रक्षां प्रार्थयन्ते।
पदार्थः -
(इन्द्रावरुणा) भो शूरा योद्धारः ! (युवाम्) यूयं (आप्यम्) सर्वेषां सुलभा अर्थात् रक्षका भवत (पश्यमानासः) युष्मद्वीरतां प्रेक्षमाणाः (पृथुपर्शवः) सर्वतः पुष्टशरीराः (नरा) जनाः (गव्यन्तः) स्वं स्वमात्मानं समर्पयन्तः (ययुः) युष्मान् प्राप्नुवन्ति (च) तथा च (प्राचा, दासा) प्राचीनसेवकाः (च) तथा (आर्याणि) आर्यजनाश्च युष्मान् शरणमन्विच्छन्ति (वृत्रा, हतम्) यूयं शत्रूनपनीय (अवसा) रक्षन्तः (अवतम्, सुदासम्) दयालुं नृपं प्राप्नुत ॥१॥