Loading...
ऋग्वेद मण्डल - 7 के सूक्त 87 के मन्त्र
मण्डल के आधार पर मन्त्र चुनें
अष्टक के आधार पर मन्त्र चुनें
  • ऋग्वेद का मुख्य पृष्ठ
  • ऋग्वेद - मण्डल 7/ सूक्त 87/ मन्त्र 5
    ऋषिः - वसिष्ठः देवता - वरुणः छन्दः - आर्षीत्रिष्टुप् स्वरः - धैवतः

    ति॒स्रो द्यावो॒ निहि॑ता अ॒न्तर॑स्मिन्ति॒स्रो भूमी॒रुप॑रा॒: षड्वि॑धानाः । गृत्सो॒ राजा॒ वरु॑णश्चक्र ए॒तं दि॒वि प्रे॒ङ्खं हि॑र॒ण्ययं॑ शु॒भे कम् ॥

    स्वर सहित पद पाठ

    ति॒स्रः । द्यावः॑ । निऽहि॑ताः । अ॒न्तः । अ॒स्मि॒न् । ति॒स्रः । भूमिः॑ । उप॑राः । षट्ऽवि॑धानाः । गृत्सः॑ । राजा॑ । वरु॑णः । च॒क्रे॒ । ए॒तम् । दि॒वि । प्र॒ऽई॒ङ्खम् । हि॒र॒ण्यय॑म् । शु॒भे । कम् ॥


    स्वर रहित मन्त्र

    तिस्रो द्यावो निहिता अन्तरस्मिन्तिस्रो भूमीरुपरा: षड्विधानाः । गृत्सो राजा वरुणश्चक्र एतं दिवि प्रेङ्खं हिरण्ययं शुभे कम् ॥

    स्वर रहित पद पाठ

    तिस्रः । द्यावः । निऽहिताः । अन्तः । अस्मिन् । तिस्रः । भूमिः । उपराः । षट्ऽविधानाः । गृत्सः । राजा । वरुणः । चक्रे । एतम् । दिवि । प्रऽईङ्खम् । हिरण्ययम् । शुभे । कम् ॥ ७.८७.५

    ऋग्वेद - मण्डल » 7; सूक्त » 87; मन्त्र » 5
    अष्टक » 5; अध्याय » 6; वर्ग » 9; मन्त्र » 5

    पदार्थः -
    (तिस्रः, द्यावः) त्रिधा द्युलोकः (अस्मिन्) अस्य परमात्मनः (अन्तः) स्वरूपे (निहिताः) स्थितोऽस्ति (तिस्रः, भूमीः) त्रिधा भूमिश्च (उपराः) यस्या उपरि (षड्विधानाः) षोढा ऋतव उत्तरोत्तरविनिमयेन वर्त्तन्ते (एतम्) एतत्सर्वं (गृत्सः) विश्वोपदेशकः (वरुणः) जगद्वशमानयन् (राजा) विराजमान ईश्वरः (दिवि, प्रेङ्खम्) द्यावापृथिव्योर्मध्ये (हिरण्ययम्) ज्योतिःस्वरूपं सूर्यं (शुभे, कम्) आकाशे प्रकाशयितुं (चक्रे) विनिर्ममे ॥५॥

    इस भाष्य को एडिट करें
    Top