Loading...
ऋग्वेद मण्डल - 7 के सूक्त 88 के मन्त्र
मण्डल के आधार पर मन्त्र चुनें
अष्टक के आधार पर मन्त्र चुनें
  • ऋग्वेद का मुख्य पृष्ठ
  • ऋग्वेद - मण्डल 7/ सूक्त 88/ मन्त्र 1
    ऋषिः - वसिष्ठः देवता - वरुणः छन्दः - निचृत्त्रिष्टुप् स्वरः - धैवतः

    प्र शु॒न्ध्युवं॒ वरु॑णाय॒ प्रेष्ठां॑ म॒तिं व॑सिष्ठ मी॒ळ्हुषे॑ भरस्व । य ई॑म॒र्वाञ्चं॒ कर॑ते॒ यज॑त्रं स॒हस्रा॑मघं॒ वृष॑णं बृ॒हन्त॑म् ॥

    स्वर सहित पद पाठ

    प्र । शु॒न्ध्युव॑म् । वरु॑णाय । प्रेष्ठा॑म् । म॒तिम् । व॒सि॒ष्ठ॒ । मी॒ळ्हुषे॑ । भ॒र॒स्व॒ । यः । ई॒म् । अ॒र्वाञ्च॑म् । कर॑ते । यज॑त्रम् । स॒हस्र॑ऽमघम् । वृष॑णम् । बृ॒हन्त॑म् ॥


    स्वर रहित मन्त्र

    प्र शुन्ध्युवं वरुणाय प्रेष्ठां मतिं वसिष्ठ मीळ्हुषे भरस्व । य ईमर्वाञ्चं करते यजत्रं सहस्रामघं वृषणं बृहन्तम् ॥

    स्वर रहित पद पाठ

    प्र । शुन्ध्युवम् । वरुणाय । प्रेष्ठाम् । मतिम् । वसिष्ठ । मीळ्हुषे । भरस्व । यः । ईम् । अर्वाञ्चम् । करते । यजत्रम् । सहस्रऽमघम् । वृषणम् । बृहन्तम् ॥ ७.८८.१

    ऋग्वेद - मण्डल » 7; सूक्त » 88; मन्त्र » 1
    अष्टक » 5; अध्याय » 6; वर्ग » 10; मन्त्र » 1

    पदार्थः -
    (वसिष्ठ) भोः सद्गुणसम्पन्न विद्वन् ! भवान् (वरुणाय) सर्वाधिष्ठानाय (मीळ्हुषे) सर्वान् बिभ्रते परमात्मने (प्रेष्ठाम्) प्रियतमां (शुन्ध्युवम्) अविद्यानाशिनीं (मतिम्) बुद्धिं (प्र, भरस्व) दधातु (यः) योऽसौ परमात्मा (यजत्रम्) प्राकृतयज्ञं कुर्वन्तम् (सहस्रामघम्) अनन्तबलदं (वृषणम्) वृष्टिकर्त्तारं (बृहन्तम्) सर्वतोऽधिकं (ईम्, अर्वाञ्चम्, इमम्) प्रत्यक्षदेवं सूर्यं (करते) जनयति तमेवानन्यचेताः सन्नुपास्व ॥१॥

    इस भाष्य को एडिट करें
    Top