Loading...
ऋग्वेद मण्डल - 7 के सूक्त 88 के मन्त्र
मण्डल के आधार पर मन्त्र चुनें
अष्टक के आधार पर मन्त्र चुनें
  • ऋग्वेद का मुख्य पृष्ठ
  • ऋग्वेद - मण्डल 7/ सूक्त 88/ मन्त्र 2
    ऋषिः - वसिष्ठः देवता - वरुणः छन्दः - निचृत्त्रिष्टुप् स्वरः - धैवतः

    अधा॒ न्व॑स्य सं॒दृशं॑ जग॒न्वान॒ग्नेरनी॑कं॒ वरु॑णस्य मंसि । स्व१॒॑र्यदश्म॑न्नधि॒पा उ॒ अन्धो॒ऽभि मा॒ वपु॑र्दृ॒शये॑ निनीयात् ॥

    स्वर सहित पद पाठ

    अध॑ । नु । अ॒स्य॒ । स॒म्ऽदृश॑म् । ज॒ग॒न्वान् । अ॒ग्नेः । अनी॑कम् । वरु॑णस्य । मं॒सि॒ । स्वः॑ । यत् । अश्म॑न् । अ॒धि॒ऽपाः । ऊँ॒ इति॑ । अन्धः॑ । अ॒भि । मा॒ । वपुः॑ । दृ॒शये॑ । नि॒नी॒या॒त् ॥


    स्वर रहित मन्त्र

    अधा न्वस्य संदृशं जगन्वानग्नेरनीकं वरुणस्य मंसि । स्व१र्यदश्मन्नधिपा उ अन्धोऽभि मा वपुर्दृशये निनीयात् ॥

    स्वर रहित पद पाठ

    अध । नु । अस्य । सम्ऽदृशम् । जगन्वान् । अग्नेः । अनीकम् । वरुणस्य । मंसि । स्वः । यत् । अश्मन् । अधिऽपाः । ऊँ इति । अन्धः । अभि । मा । वपुः । दृशये । निनीयात् ॥ ७.८८.२

    ऋग्वेद - मण्डल » 7; सूक्त » 88; मन्त्र » 2
    अष्टक » 5; अध्याय » 6; वर्ग » 10; मन्त्र » 2

    पदार्थः -
    (अध) अधुना (नु) सत्वरं (अस्य) पूर्वोक्तपरमात्मनः (संदृशम्) साक्षात्कारं (जगन्वान्) अनुभवन् (वरुणस्य,अग्नेः) ज्ञानस्वरूपपरमात्मनः (अनीकम्) स्वरूपं (मंसि) लभे (अश्मन्) हे सर्वग परमात्मन् ! (अधिपाः) सर्वस्येश्वर ! (अन्धः) अखिलजगदधिष्ठान ! (ऊम्) तथा (यत्, स्वः) यद्भवत आनन्दस्वरूपं तत् (मा) मम (अभि) सम्यक् (वपुः) स्वरूपं (दृशये) प्रत्यक्षं (निनीयात्) कारय ॥२॥

    इस भाष्य को एडिट करें
    Top