ऋग्वेद - मण्डल 7/ सूक्त 93/ मन्त्र 1
शुचिं॒ नु स्तोमं॒ नव॑जातम॒द्येन्द्रा॑ग्नी वृत्रहणा जु॒षेथा॑म् । उ॒भा हि वां॑ सु॒हवा॒ जोह॑वीमि॒ ता वाजं॑ स॒द्य उ॑श॒ते धेष्ठा॑ ॥
स्वर सहित पद पाठशुचि॑म् । नु । स्तोम॑म् । नव॑ऽजातम् । अ॒द्य । इन्द्रा॑ग्नी॒ इति॑ । वृ॒त्र॒ऽह॒ना॒ । जु॒षेथा॑म् । उ॒भा । हि । वा॒म् । सु॒ऽहवा॑ । जोह॑वीमि । ता । वाज॑म् । स॒द्यः । उ॒श॒ते । धेष्ठा॑ ॥
स्वर रहित मन्त्र
शुचिं नु स्तोमं नवजातमद्येन्द्राग्नी वृत्रहणा जुषेथाम् । उभा हि वां सुहवा जोहवीमि ता वाजं सद्य उशते धेष्ठा ॥
स्वर रहित पद पाठशुचिम् । नु । स्तोमम् । नवऽजातम् । अद्य । इन्द्राग्नी इति । वृत्रऽहना । जुषेथाम् । उभा । हि । वाम् । सुऽहवा । जोहवीमि । ता । वाजम् । सद्यः । उशते । धेष्ठा ॥ ७.९३.१
ऋग्वेद - मण्डल » 7; सूक्त » 93; मन्त्र » 1
अष्टक » 5; अध्याय » 6; वर्ग » 15; मन्त्र » 1
अष्टक » 5; अध्याय » 6; वर्ग » 15; मन्त्र » 1
पदार्थः -
(इन्द्राग्नी) हे ज्ञानविज्ञानिनौ विद्वांसौ ! (वृत्रहणा) शत्रूणां हन्तारौ ! (अद्य) सम्प्रति भवन्तौ (नवजातम्) नूतनं (स्तोमम्) यज्ञं (जुषेथाम्) सेवेताम्, यदर्थं (उभा, हि, वाम्) द्वावपि युवां (सुहवा) सुखाहूतौ (जोहवीमि) भृशमाह्वयामि, अतः (ता) तौ भवन्तौ (शुचिम्) पवित्रमिमं यज्ञं (सद्यः) शीघ्रम् (उशते) इष्टमिच्छते यजमानाय (वाजम्) बलं (धेष्ठा) यच्छताम् ॥१॥