Loading...
ऋग्वेद मण्डल - 7 के सूक्त 92 के मन्त्र
मण्डल के आधार पर मन्त्र चुनें
अष्टक के आधार पर मन्त्र चुनें
  • ऋग्वेद का मुख्य पृष्ठ
  • ऋग्वेद - मण्डल 7/ सूक्त 92/ मन्त्र 5
    ऋषिः - वसिष्ठः देवता - वायु: छन्दः - आर्षीत्रिष्टुप् स्वरः - धैवतः

    आ नो॑ नि॒युद्भि॑: श॒तिनी॑भिरध्व॒रं स॑ह॒स्रिणी॑भि॒रुप॑ याहि य॒ज्ञम् । वायो॑ अ॒स्मिन्त्सव॑ने मादयस्व यू॒यं पा॑त स्व॒स्तिभि॒: सदा॑ नः ॥

    स्वर सहित पद पाठ

    आ । नः॒ । नि॒युत्ऽभिः॑ । श॒तिनी॑भिः । अ॒ध्व॒रम् । स॒ह॒स्रिणी॑भिः । उप॑ । या॒हि॒ । य॒ज्ञम् । वायो॒ इति॑ । अ॒स्मिन् । सव॑ने । मा॒द॒य॒स्व॒ । यू॒यम् । पा॒त॒ । स्व॒स्तिऽभिः॑ । सदा॑ । नः॒ ॥


    स्वर रहित मन्त्र

    आ नो नियुद्भि: शतिनीभिरध्वरं सहस्रिणीभिरुप याहि यज्ञम् । वायो अस्मिन्त्सवने मादयस्व यूयं पात स्वस्तिभि: सदा नः ॥

    स्वर रहित पद पाठ

    आ । नः । नियुत्ऽभिः । शतिनीभिः । अध्वरम् । सहस्रिणीभिः । उप । याहि । यज्ञम् । वायो इति । अस्मिन् । सवने । मादयस्व । यूयम् । पात । स्वस्तिऽभिः । सदा । नः ॥ ७.९२.५

    ऋग्वेद - मण्डल » 7; सूक्त » 92; मन्त्र » 5
    अष्टक » 5; अध्याय » 6; वर्ग » 14; मन्त्र » 5

    पदार्थः -
    (वायो) हे कर्मयोगिन् ! (अध्वरम्, नः) अस्माकमहिंसायज्ञे (शतिनीभिः) शतधा शक्तिभिः सह (सहस्रिणीभिः) सहस्रधाशक्तिभिः (उपयाहि) अस्मदन्तिकमागच्छ, (वायो) हे सर्वविधविद्यासु सञ्चरिष्णो विद्वन् ! (अस्मिन्, सवने) अस्मिन्ममानेकपदार्थोत्पादने यज्ञे (मादयस्व) आनन्दं लभस्व (यूयम्) भवन्तः (स्वस्तिभिः) स्वस्तिवाग्भिः (सदा) शश्वत् (नः) अस्मान् (पात) रक्षत ॥५॥ इति द्वानवतितमं सूक्तं चतुर्दशो वर्गश्च समाप्तः ॥

    इस भाष्य को एडिट करें
    Top