Loading...
ऋग्वेद मण्डल - 7 के सूक्त 97 के मन्त्र
मण्डल के आधार पर मन्त्र चुनें
अष्टक के आधार पर मन्त्र चुनें
  • ऋग्वेद का मुख्य पृष्ठ
  • ऋग्वेद - मण्डल 7/ सूक्त 97/ मन्त्र 10
    ऋषिः - वसिष्ठः देवता - इन्द्राबृहस्पती छन्दः - निचृत्त्रिष्टुप् स्वरः - धैवतः

    बृह॑स्पते यु॒वमिन्द्र॑श्च॒ वस्वो॑ दि॒व्यस्ये॑शाथे उ॒त पार्थि॑वस्य । ध॒त्तं र॒यिं स्तु॑व॒ते की॒रये॑ चिद्यू॒यं पा॑त स्व॒स्तिभि॒: सदा॑ नः ॥

    स्वर सहित पद पाठ

    बृह॑स्पते । यु॒वम् । इन्द्रः॑ । च॒ । वस्वः॑ । दि॒व्यस्य॑ । ई॒शा॒थे॒ इति॑ । उ॒त । पार्थि॑वस्य । ध॒त्तम् । र॒यिम् । स्तु॒व॒ते । की॒रये॑ । चि॒त् । यू॒यम् । पा॒त॒ । स्व॒स्तिऽभिः॑ । सदा॑ । नः॒ ॥


    स्वर रहित मन्त्र

    बृहस्पते युवमिन्द्रश्च वस्वो दिव्यस्येशाथे उत पार्थिवस्य । धत्तं रयिं स्तुवते कीरये चिद्यूयं पात स्वस्तिभि: सदा नः ॥

    स्वर रहित पद पाठ

    बृहस्पते । युवम् । इन्द्रः । च । वस्वः । दिव्यस्य । ईशाथे इति । उत । पार्थिवस्य । धत्तम् । रयिम् । स्तुवते । कीरये । चित् । यूयम् । पात । स्वस्तिऽभिः । सदा । नः ॥ ७.९७.१०

    ऋग्वेद - मण्डल » 7; सूक्त » 97; मन्त्र » 10
    अष्टक » 5; अध्याय » 6; वर्ग » 22; मन्त्र » 5

    पदार्थः -
    (बृहस्पते) हे सर्वस्वामिन् ! (यूवम्) भवान् (इन्द्रः) परमैश्वर्यवानस्ति (दिव्यस्य, उत, पार्थिवस्य) द्युलोकजस्य पृथिवीलोकजस्य च (वस्वः) रत्नस्य (ईशाथे, च) ईश्वरो हि, (स्तुवते, कीरये) अतः व्ययार्थं स्वस्तोतृभ्यः (रयिम्, धत्तम्) विविधधनं वितरतु (चित्) निश्चयं (यूयम्) भवान् (स्वस्तिभिः) स्वस्तिवाग्भिः (सदा) शश्वत् (नः) अस्मान् (पात) रक्षतु ॥१०॥ इति सप्तनवतितमं सूक्तं द्वाविंशो वर्गश्च समाप्तः ॥

    इस भाष्य को एडिट करें
    Top