Loading...
मण्डल के आधार पर मन्त्र चुनें
अष्टक के आधार पर मन्त्र चुनें
  • ऋग्वेद का मुख्य पृष्ठ
  • ऋग्वेद - मण्डल 8/ सूक्त 12/ मन्त्र 1
    ऋषिः - पर्वतः काण्वः देवता - इन्द्र: छन्दः - निचृदुष्णिक् स्वरः - ऋषभः

    य इ॑न्द्र सोम॒पात॑मो॒ मद॑: शविष्ठ॒ चेत॑ति । येना॒ हंसि॒ न्य१॒॑त्रिणं॒ तमी॑महे ॥

    स्वर सहित पद पाठ

    यः । इ॒न्द्र॒ । सो॒म॒ऽपात॑मः । मदः॑ । श॒वि॒ष्ठ॒ । चेत॑ति । येन॑ । हंसि॑ । नि । अ॒त्रिण॑म् । तम् । ई॒म॒हे॒ ॥


    स्वर रहित मन्त्र

    य इन्द्र सोमपातमो मद: शविष्ठ चेतति । येना हंसि न्य१त्रिणं तमीमहे ॥

    स्वर रहित पद पाठ

    यः । इन्द्र । सोमऽपातमः । मदः । शविष्ठ । चेतति । येन । हंसि । नि । अत्रिणम् । तम् । ईमहे ॥ ८.१२.१

    ऋग्वेद - मण्डल » 8; सूक्त » 12; मन्त्र » 1
    अष्टक » 6; अध्याय » 1; वर्ग » 1; मन्त्र » 1

    पदार्थः -
    (इन्द्र) हे परमात्मन् ! त्वम् (सोमपातमः) उत्पन्नपदार्थानां लयकर्त्तासि (यः, मदः) यो भवतो बलम् (शविष्ठः) सर्वेषु बलेषूत्तमः (चेतति) सर्वत्र जागरूकश्चास्ति (येन) येन बलेन (अत्रिणम्) वेदत्रयमार्गरहितम् (निहंसि) न रक्षसि (तम्) तत्ते बलम् (ईमहे) याचामहे ॥१॥

    इस भाष्य को एडिट करें
    Top