ऋग्वेद - मण्डल 8/ सूक्त 11/ मन्त्र 10
प्र॒त्नो हि क॒मीड्यो॑ अध्व॒रेषु॑ स॒नाच्च॒ होता॒ नव्य॑श्च॒ सत्सि॑ । स्वां चा॑ग्ने त॒न्वं॑ पि॒प्रय॑स्वा॒स्मभ्यं॑ च॒ सौभ॑ग॒मा य॑जस्व ॥
स्वर सहित पद पाठप्र॒त्नः । हि । क॒म् । ईड्यः॑ । अ॒ध्व॒रेषु॑ । स॒नात् । च॒ । होता॑ । नव्यः॑ । च॒ । सत्सि॑ । स्वाम् । च॒ । अ॒ग्ने॒ । त॒न्व॑म् । पि॒प्रय॑स्व । अ॒स्मभ्य॑म् । च॒ । सौभ॑गम् । आ । य॒ज॒स्व॒ ॥
स्वर रहित मन्त्र
प्रत्नो हि कमीड्यो अध्वरेषु सनाच्च होता नव्यश्च सत्सि । स्वां चाग्ने तन्वं पिप्रयस्वास्मभ्यं च सौभगमा यजस्व ॥
स्वर रहित पद पाठप्रत्नः । हि । कम् । ईड्यः । अध्वरेषु । सनात् । च । होता । नव्यः । च । सत्सि । स्वाम् । च । अग्ने । तन्वम् । पिप्रयस्व । अस्मभ्यम् । च । सौभगम् । आ । यजस्व ॥ ८.११.१०
ऋग्वेद - मण्डल » 8; सूक्त » 11; मन्त्र » 10
अष्टक » 5; अध्याय » 8; वर्ग » 36; मन्त्र » 5
अष्टक » 5; अध्याय » 8; वर्ग » 36; मन्त्र » 5
पदार्थः -
(अग्ने) हे परमात्मन् ! (प्रत्नः) पुरातनः (हि) अतः (ईड्यः) स्तुत्यः (सनात्, च, होता) शाश्वतिको होता (नव्यः, च) नित्यनूतनश्च (अध्वरेषु, सत्सि) यज्ञेषु निषीदसि (स्वाम्, तन्वम्, च) स्वब्रह्माण्डरूपं शरीरं च (पिप्रयस्व) पोषय (अस्मभ्यम्, च) अस्मदर्थं च (सौभगम्, आयजस्व) सौभाग्यं समन्ताद्देहि। “कमिति पूरणः” ॥१०॥ इति श्रीमदार्य्यमुनिनोपनिबद्धे ऋक्संहिताभाष्ये अष्टममण्डले पञ्चमाष्टके अष्टमोऽध्यायः समाप्तः ॥