Loading...
ऋग्वेद मण्डल - 8 के सूक्त 11 के मन्त्र
मण्डल के आधार पर मन्त्र चुनें
अष्टक के आधार पर मन्त्र चुनें
  • ऋग्वेद का मुख्य पृष्ठ
  • ऋग्वेद - मण्डल 8/ सूक्त 11/ मन्त्र 9
    ऋषिः - वत्सः काण्वः देवता - अग्निः छन्दः - निचृद्गायत्री स्वरः - षड्जः

    स॒मत्स्व॒ग्निमव॑से वाज॒यन्तो॑ हवामहे । वाजे॑षु चि॒त्ररा॑धसम् ॥

    स्वर सहित पद पाठ

    स॒मत्ऽसु॑ । अ॒ग्निम् । अव॑से । वा॒ज॒ऽयन्तः॑ । ह॒वा॒म॒हे॒ । वाजे॑षु । चि॒त्रऽरा॑धसम् ॥


    स्वर रहित मन्त्र

    समत्स्वग्निमवसे वाजयन्तो हवामहे । वाजेषु चित्रराधसम् ॥

    स्वर रहित पद पाठ

    समत्ऽसु । अग्निम् । अवसे । वाजऽयन्तः । हवामहे । वाजेषु । चित्रऽराधसम् ॥ ८.११.९

    ऋग्वेद - मण्डल » 8; सूक्त » 11; मन्त्र » 9
    अष्टक » 5; अध्याय » 8; वर्ग » 36; मन्त्र » 4

    पदार्थः -
    (वाजेषु) संग्रामेषु (चित्रराधसम्) विचित्रधनम् (अग्निम्) परमात्मानम् (अवसे) रक्षायै (वाजयन्तः) बलमिच्छन्तो वयम् (समत्सु) संग्रामेषु (हवामहे) आह्वयामः ॥९॥

    इस भाष्य को एडिट करें
    Top