ऋग्वेद - मण्डल 8/ सूक्त 13/ मन्त्र 33
वृषा॑ त्वा॒ वृष॑णं हुवे॒ वज्रि॑ञ्चि॒त्राभि॑रू॒तिभि॑: । वा॒वन्थ॒ हि प्रति॑ष्टुतिं॒ वृषा॒ हव॑: ॥
स्वर सहित पद पाठवृषा॑ । त्वा॒ । वृष॑णम् । हुवे॑ । वज्रि॑न् । चि॒त्राभिः॑ । ऊ॒तिऽभिः॑ । व॒वन्थ॑ । हि । प्रति॑ऽस्तुतिम् । वृषा॑ । हवः॑ ॥
स्वर रहित मन्त्र
वृषा त्वा वृषणं हुवे वज्रिञ्चित्राभिरूतिभि: । वावन्थ हि प्रतिष्टुतिं वृषा हव: ॥
स्वर रहित पद पाठवृषा । त्वा । वृषणम् । हुवे । वज्रिन् । चित्राभिः । ऊतिऽभिः । ववन्थ । हि । प्रतिऽस्तुतिम् । वृषा । हवः ॥ ८.१३.३३
ऋग्वेद - मण्डल » 8; सूक्त » 13; मन्त्र » 33
अष्टक » 6; अध्याय » 1; वर्ग » 13; मन्त्र » 3
अष्टक » 6; अध्याय » 1; वर्ग » 13; मन्त्र » 3
पदार्थः -
(वज्रिन्) हे वज्रशक्तिमन् ! (वृषा) अहमपि वृषा बुभूषुः (चित्राभिः, ऊतिभिः) विविधस्तुतिभिः (वृषणम्, त्वा) वर्षितारं त्वाम् (हुवे) आह्वयामि (हि) यस्मात् (प्रतिस्तुतिम्) प्रत्येकस्तुतिम् (ववन्थ) भजसि त्वम् अतः (वृषा, हवः) तवाह्वानं वृषाऽस्ति ॥३३॥ इति त्रयोदशं सूक्तं त्रयोदशो वर्गश्च समाप्तः ॥