ऋग्वेद - मण्डल 8/ सूक्त 17/ मन्त्र 4
ऋषिः - इरिम्बिठिः काण्वः
देवता - इन्द्र:
छन्दः - निचृद्गायत्री
स्वरः - षड्जः
आ नो॑ याहि सु॒ताव॑तो॒ऽस्माकं॑ सुष्टु॒तीरुप॑ । पिबा॒ सु शि॑प्रि॒न्नन्ध॑सः ॥
स्वर सहित पद पाठआ । नः॒ । या॒हि॒ । सु॒तऽव॑तः । अ॒स्माक॑म् । सु॒ऽस्तु॒तीः । उप॑ । पिब॑ । सु । शि॒प्रि॒न् । अन्ध॑सः ॥
स्वर रहित मन्त्र
आ नो याहि सुतावतोऽस्माकं सुष्टुतीरुप । पिबा सु शिप्रिन्नन्धसः ॥
स्वर रहित पद पाठआ । नः । याहि । सुतऽवतः । अस्माकम् । सुऽस्तुतीः । उप । पिब । सु । शिप्रिन् । अन्धसः ॥ ८.१७.४
ऋग्वेद - मण्डल » 8; सूक्त » 17; मन्त्र » 4
अष्टक » 6; अध्याय » 1; वर्ग » 22; मन्त्र » 4
अष्टक » 6; अध्याय » 1; वर्ग » 22; मन्त्र » 4
पदार्थः -
(शिप्रिन्) हे प्रशस्तशिरस्त्राण ! (अस्माकम्, सुष्टुतीः, उप) अस्माकं स्तुतीनां समीपे (सुतावतः, नः) संस्कृतवतोऽस्मान् (आयाहि) आगच्छ (स्वन्धसः) सुरसान् (पिब) अनुभव ॥४॥