ऋग्वेद - मण्डल 8/ सूक्त 17/ मन्त्र 3
ब्र॒ह्माण॑स्त्वा व॒यं यु॒जा सो॑म॒पामि॑न्द्र सो॒मिन॑: । सु॒ताव॑न्तो हवामहे ॥
स्वर सहित पद पाठब्र॒ह्माणः॑ । त्वा॒ । व॒यम् । यु॒जा । सो॒म॒ऽपाम् । इ॒न्द्र॒ । सो॒मिनः॑ । सु॒तऽव॑न्तः । ह॒वा॒म॒हे॒ ॥
स्वर रहित मन्त्र
ब्रह्माणस्त्वा वयं युजा सोमपामिन्द्र सोमिन: । सुतावन्तो हवामहे ॥
स्वर रहित पद पाठब्रह्माणः । त्वा । वयम् । युजा । सोमऽपाम् । इन्द्र । सोमिनः । सुतऽवन्तः । हवामहे ॥ ८.१७.३
ऋग्वेद - मण्डल » 8; सूक्त » 17; मन्त्र » 3
अष्टक » 6; अध्याय » 1; वर्ग » 22; मन्त्र » 3
अष्टक » 6; अध्याय » 1; वर्ग » 22; मन्त्र » 3
पदार्थः -
(इन्द्र) हे योद्धः ! (सोमिनः) सोमवन्तः (सुतावन्तः) सवनं कृतवन्तः (वयम्, ब्रह्माणः) वयं ब्राह्मणाः (सोमपाम्, त्वा) सोमपानशीलं त्वाम् (हवामहे) आह्वयामः (युजा) योग्येन स्तोत्रेण ॥३॥