ऋग्वेद - मण्डल 8/ सूक्त 23/ मन्त्र 1
ईळि॑ष्वा॒ हि प्र॑ती॒व्यं१॒॑ यज॑स्व जा॒तवे॑दसम् । च॒रि॒ष्णुधू॑म॒मगृ॑भीतशोचिषम् ॥
स्वर सहित पद पाठईळि॑ष्व॑ । हि । प्र॒ती॒व्य॑म् । यज॑स्व । जा॒तऽवे॑दसम् । च॒रि॒ष्णुऽधू॑मम् । अगृ॑भीतऽशोचिषम् ॥
स्वर रहित मन्त्र
ईळिष्वा हि प्रतीव्यं१ यजस्व जातवेदसम् । चरिष्णुधूममगृभीतशोचिषम् ॥
स्वर रहित पद पाठईळिष्व । हि । प्रतीव्यम् । यजस्व । जातऽवेदसम् । चरिष्णुऽधूमम् । अगृभीतऽशोचिषम् ॥ ८.२३.१
ऋग्वेद - मण्डल » 8; सूक्त » 23; मन्त्र » 1
अष्टक » 6; अध्याय » 2; वर्ग » 9; मन्त्र » 1
अष्टक » 6; अध्याय » 2; वर्ग » 9; मन्त्र » 1
विषयः - अथाग्नित्वधर्मवतो विदुषो गुणा वर्ण्यन्ते।
पदार्थः -
हे याज्ञिक ! (प्रतीव्यम्) शत्रुषु प्रति गमनशीलम् (ईळिष्व, हि) स्तुह्येव (जातवेदसम्) यो जातं सर्वं प्राणिसमूहं वेत्ति तम् (चरिष्णुधूमम्) यस्य शस्त्रास्त्रसम्बन्धीधूमः चरिष्णुः (अगृभीतशोचिषम्) अग्राह्यप्रतापम् ईदृशं विद्वांसम् (यजस्व) पूजय ॥१॥