ऋग्वेद - मण्डल 8/ सूक्त 23/ मन्त्र 2
दा॒मानं॑ विश्वचर्षणे॒ऽग्निं वि॑श्वमनो गि॒रा । उ॒त स्तु॑षे॒ विष्प॑र्धसो॒ रथा॑नाम् ॥
स्वर सहित पद पाठदा॒मान॑म् । वि॒श्व॒ऽच॒र्ष॒णे॒ । अ॒ग्निम् । वि॒श्व॒ऽम॒नः॒ । गि॒रा । उ॒त । स्तु॒षे॒ । विऽस्प॑र्धसः । रथा॑नाम् ॥
स्वर रहित मन्त्र
दामानं विश्वचर्षणेऽग्निं विश्वमनो गिरा । उत स्तुषे विष्पर्धसो रथानाम् ॥
स्वर रहित पद पाठदामानम् । विश्वऽचर्षणे । अग्निम् । विश्वऽमनः । गिरा । उत । स्तुषे । विऽस्पर्धसः । रथानाम् ॥ ८.२३.२
ऋग्वेद - मण्डल » 8; सूक्त » 23; मन्त्र » 2
अष्टक » 6; अध्याय » 2; वर्ग » 9; मन्त्र » 2
अष्टक » 6; अध्याय » 2; वर्ग » 9; मन्त्र » 2
पदार्थः -
(विश्वचर्षणे) हे सर्वसूक्ष्मपदार्थबुद्धे (विश्वमनः) सर्वत्र मनोगते ऋषे ! (अग्निम्) अग्निशब्दवाच्यम् (उत) अथ (विस्पर्धसः) स्पर्धारहितस्य (रथानाम्, दामानम्) दिव्ययानानां दातारम् (गिरा, स्तुषे) सुवाचा स्तुहि ॥२॥