ऋग्वेद - मण्डल 8/ सूक्त 23/ मन्त्र 3
येषा॑माबा॒ध ऋ॒ग्मिय॑ इ॒षः पृ॒क्षश्च॑ नि॒ग्रभे॑ । उ॒प॒विदा॒ वह्नि॑र्विन्दते॒ वसु॑ ॥
स्वर सहित पद पाठयेषा॑म् । आ॒ऽबा॒धः । ऋ॒ग्मियः॑ । इ॒षः । पृ॒क्षः । च॒ । नि॒ऽग्रभे॑ । उ॒प॒ऽविदा॑ । वह्निः॑ । वि॒न्द॒ते॒ । वसु॑ ॥
स्वर रहित मन्त्र
येषामाबाध ऋग्मिय इषः पृक्षश्च निग्रभे । उपविदा वह्निर्विन्दते वसु ॥
स्वर रहित पद पाठयेषाम् । आऽबाधः । ऋग्मियः । इषः । पृक्षः । च । निऽग्रभे । उपऽविदा । वह्निः । विन्दते । वसु ॥ ८.२३.३
ऋग्वेद - मण्डल » 8; सूक्त » 23; मन्त्र » 3
अष्टक » 6; अध्याय » 2; वर्ग » 9; मन्त्र » 3
अष्टक » 6; अध्याय » 2; वर्ग » 9; मन्त्र » 3
पदार्थः -
(आबाधः) आभिमुख्येन शत्रूणां बाधकः (ऋग्मियः) ऋग्भिरर्चनीयः (वह्निः) सर्वेभ्यो बलेर्वोढा सः (येषाम्) येषां क्रूरजनानाम् (इषः, पृक्षश्च) अन्नादि देयभागांश्च (निग्रभे) निगृह्णाति (उपविदा) स्वराजं प्रति वेदनेन (वसु, विन्दते) तेषां मुख्यरत्नं लभते बलात् ॥३॥