ऋग्वेद - मण्डल 8/ सूक्त 7/ मन्त्र 1
प्र यद्व॑स्त्रि॒ष्टुभ॒मिषं॒ मरु॑तो॒ विप्रो॒ अक्ष॑रत् । वि पर्व॑तेषु राजथ ॥
स्वर सहित पद पाठप्र । यत् । वः॒ । त्रि॒ऽस्तुभ॑म् । इष॑म् । मरु॑तः । विप्रः॑ । अक्ष॑रत् । वि । पर्व॑तेषु । रा॒ज॒थ॒ ॥
स्वर रहित मन्त्र
प्र यद्वस्त्रिष्टुभमिषं मरुतो विप्रो अक्षरत् । वि पर्वतेषु राजथ ॥
स्वर रहित पद पाठप्र । यत् । वः । त्रिऽस्तुभम् । इषम् । मरुतः । विप्रः । अक्षरत् । वि । पर्वतेषु । राजथ ॥ ८.७.१
ऋग्वेद - मण्डल » 8; सूक्त » 7; मन्त्र » 1
अष्टक » 5; अध्याय » 8; वर्ग » 18; मन्त्र » 1
अष्टक » 5; अध्याय » 8; वर्ग » 18; मन्त्र » 1
विषयः - अथ क्षात्रबलं वर्णयन्नादौ योद्धृगुणान् वर्णयति।
पदार्थः -
(मरुतः) हे शीघ्रगतयो योद्धारः ! (यत्) यस्मात् (विप्रः) मेधाविजनः (वः) युष्माकम् (इषम्) इष्यमाणं धनम् (त्रिष्टुभम्) त्रिषु रुध्यमानं (प्राक्षरत्) विगमयति, तेन (पर्वतेषु) दुर्गप्रदेशेषु (विराजथ) विशेषेण राजध्वे ॥१॥