ऋग्वेद - मण्डल 8/ सूक्त 7/ मन्त्र 2
यद॒ङ्ग त॑विषीयवो॒ यामं॑ शुभ्रा॒ अचि॑ध्वम् । नि पर्व॑ता अहासत ॥
स्वर सहित पद पाठयत् । अ॒ङ्ग । त॒वि॒षी॒ऽय॒वः॒ । याम॑म् । शुभ्राः॑ । अचि॑ध्वम् । नि । पर्व॑ताः । अ॒हा॒स॒त॒ ॥
स्वर रहित मन्त्र
यदङ्ग तविषीयवो यामं शुभ्रा अचिध्वम् । नि पर्वता अहासत ॥
स्वर रहित पद पाठयत् । अङ्ग । तविषीऽयवः । यामम् । शुभ्राः । अचिध्वम् । नि । पर्वताः । अहासत ॥ ८.७.२
ऋग्वेद - मण्डल » 8; सूक्त » 7; मन्त्र » 2
अष्टक » 5; अध्याय » 8; वर्ग » 18; मन्त्र » 2
अष्टक » 5; अध्याय » 8; वर्ग » 18; मन्त्र » 2
पदार्थः -
(अङ्ग) हे योधाः (यद्) यदा (शुभ्राः) शोभना यूयम् (तविषीयवः) अन्येषां बलं मार्गयन्तः (यामम्, अचिध्वम्) रथादिवाहनं चिनुथ तदा (पर्वताः) परेषां दुर्गाणि (न्यहासत) कम्पन्ते ॥२॥