Loading...
ऋग्वेद मण्डल - 9 के सूक्त 101 के मन्त्र
मण्डल के आधार पर मन्त्र चुनें
अष्टक के आधार पर मन्त्र चुनें
  • ऋग्वेद का मुख्य पृष्ठ
  • ऋग्वेद - मण्डल 9/ सूक्त 101/ मन्त्र 4
    ऋषिः - ययातिर्नाहुषः देवता - पवमानः सोमः छन्दः - अनुष्टुप् स्वरः - गान्धारः

    सु॒तासो॒ मधु॑मत्तमा॒: सोमा॒ इन्द्रा॑य म॒न्दिन॑: । प॒वित्र॑वन्तो अक्षरन्दे॒वान्ग॑च्छन्तु वो॒ मदा॑: ॥

    स्वर सहित पद पाठ

    सु॒तासः॑ । मधु॑मत्ऽतमाः । सोमाः॑ । इन्द्रा॑य । म॒न्दिनः॑ । प॒वित्र॑ऽवन्तः । अ॒क्ष॒र॒न् । दे॒वान् । ग॒च्छ॒न्तु॒ । वः॒ । मदाः॑ ॥


    स्वर रहित मन्त्र

    सुतासो मधुमत्तमा: सोमा इन्द्राय मन्दिन: । पवित्रवन्तो अक्षरन्देवान्गच्छन्तु वो मदा: ॥

    स्वर रहित पद पाठ

    सुतासः । मधुमत्ऽतमाः । सोमाः । इन्द्राय । मन्दिनः । पवित्रऽवन्तः । अक्षरन् । देवान् । गच्छन्तु । वः । मदाः ॥ ९.१०१.४

    ऋग्वेद - मण्डल » 9; सूक्त » 101; मन्त्र » 4
    अष्टक » 7; अध्याय » 5; वर्ग » 1; मन्त्र » 4

    पदार्थः -
    (सुतासः) आविर्भूताः (मन्दिनः) आह्लादकाः (मधुमत्तमाः) आनन्दमयाः (सोमाः) परमात्मसौम्यस्वभावाः (इन्द्राय) कर्मयोगिनं प्राप्नुवन्तु (वः, देवान्) युष्मान् दिव्यगुणान् विदुषः (पवित्रवन्तः) पवित्रतायुक्ताः (मदाः) आह्लादकगुणाः (अक्षरन्) आनन्दवृष्ट्या सह (गच्छन्तु) प्राप्नुवन्तु ॥४॥

    इस भाष्य को एडिट करें
    Top