ऋग्वेद - मण्डल 9/ सूक्त 101/ मन्त्र 5
ऋषिः - ययातिर्नाहुषः
देवता - पवमानः सोमः
छन्दः - अनुष्टुप्
स्वरः - गान्धारः
इन्दु॒रिन्द्रा॑य पवत॒ इति॑ दे॒वासो॑ अब्रुवन् । वा॒चस्पति॑र्मखस्यते॒ विश्व॒स्येशा॑न॒ ओज॑सा ॥
स्वर सहित पद पाठइन्दुः॑ । इन्द्रा॑य । प॒व॒ते॒ । इति॑ । दे॒वासः॑ । अ॒ब्रु॒व॒न् । वा॒चः । पतिः॑ । म॒ख॒स्य॒ते॒ । विश्व॑स्य । ईशा॑नः । ओज॑सा ॥
स्वर रहित मन्त्र
इन्दुरिन्द्राय पवत इति देवासो अब्रुवन् । वाचस्पतिर्मखस्यते विश्वस्येशान ओजसा ॥
स्वर रहित पद पाठइन्दुः । इन्द्राय । पवते । इति । देवासः । अब्रुवन् । वाचः । पतिः । मखस्यते । विश्वस्य । ईशानः । ओजसा ॥ ९.१०१.५
ऋग्वेद - मण्डल » 9; सूक्त » 101; मन्त्र » 5
अष्टक » 7; अध्याय » 5; वर्ग » 1; मन्त्र » 5
अष्टक » 7; अध्याय » 5; वर्ग » 1; मन्त्र » 5
पदार्थः -
(इन्दुः) सर्वप्रकाशकः परमात्मा (इन्द्राय) कर्मयोगिने (पवते) पवित्रतां प्रददाति (देवासः) विद्वांसः (इति अब्रुवन्) इति भाषन्ते यत् कर्मयोगी हि तज्ज्ञानपात्रमस्ति (वाचस्पतिः) स परमात्माखिलवागधिपतिः (मखस्यते) ज्ञानयज्ञयोगयज्ञ-तपोयज्ञादिसर्वयज्ञानामधिपश्च (ओजसा) स्वबलेन (विश्वस्य, ईशानः) सर्वब्रह्माण्डस्वाम्यस्ति ॥५॥