Loading...
ऋग्वेद मण्डल - 9 के सूक्त 104 के मन्त्र
मण्डल के आधार पर मन्त्र चुनें
अष्टक के आधार पर मन्त्र चुनें
  • ऋग्वेद का मुख्य पृष्ठ
  • ऋग्वेद - मण्डल 9/ सूक्त 104/ मन्त्र 2
    ऋषिः - पर्वतनारदौ द्वे शिखण्डिन्यौ वा काश्यप्यावप्सरसौ देवता - पवमानः सोमः छन्दः - निचृदुष्णिक् स्वरः - ऋषभः

    समी॑ व॒त्सं न मा॒तृभि॑: सृ॒जता॑ गय॒साध॑नम् । दे॒वा॒व्यं१॒॑ मद॑म॒भि द्विश॑वसम् ॥

    स्वर सहित पद पाठ

    सम् । ई॒म् इति॑ । व॒त्सम् । न । मा॒तृऽभिः॑ । सृ॒जत॑ । ग॒य॒ऽसाध॑नम् । दे॒व॒ऽअ॒व्य॑म् । मद॑म् । अ॒भि । द्विऽश॑वसम् ॥


    स्वर रहित मन्त्र

    समी वत्सं न मातृभि: सृजता गयसाधनम् । देवाव्यं१ मदमभि द्विशवसम् ॥

    स्वर रहित पद पाठ

    सम् । ईम् इति । वत्सम् । न । मातृऽभिः । सृजत । गयऽसाधनम् । देवऽअव्यम् । मदम् । अभि । द्विऽशवसम् ॥ ९.१०४.२

    ऋग्वेद - मण्डल » 9; सूक्त » 104; मन्त्र » 2
    अष्टक » 7; अध्याय » 5; वर्ग » 7; मन्त्र » 2

    पदार्थः -
    (गयसाधनम्) ज्ञानसाधनं (देवाव्यम्) देवरक्षकम् (मदम्) आनन्दमयं (द्विशवसम्) महाबलिनं(वत्सं, न)सर्वाभिव्यक्तशक्तिमिव स्थितं  (ईम्) इमं  परमात्मानं  (मातृभिः,  संसृजत)  विद्वांसः  बुद्धिवृत्तिभिः  साक्षात्कुर्वन्ति ॥२॥

    इस भाष्य को एडिट करें
    Top