Loading...
ऋग्वेद मण्डल - 9 के सूक्त 105 के मन्त्र
मण्डल के आधार पर मन्त्र चुनें
अष्टक के आधार पर मन्त्र चुनें
  • ऋग्वेद का मुख्य पृष्ठ
  • ऋग्वेद - मण्डल 9/ सूक्त 105/ मन्त्र 1
    ऋषिः - पर्वतनारदौ देवता - पवमानः सोमः छन्दः - उष्णिक् स्वरः - ऋषभः

    तं व॑: सखायो॒ मदा॑य पुना॒नम॒भि गा॑यत । शिशुं॒ न य॒ज्ञैः स्व॑दयन्त गू॒र्तिभि॑: ॥

    स्वर सहित पद पाठ

    तम् । वः॒ । स॒खा॒यः॒ । मदा॑य । पु॒ना॒नम् । अ॒भि । गा॒य॒त॒ । शिशु॑म् । न । य॒ज्ञैः । स्व॒द॒य॒न्त॒ । गू॒र्तिऽभिः॑ ॥


    स्वर रहित मन्त्र

    तं व: सखायो मदाय पुनानमभि गायत । शिशुं न यज्ञैः स्वदयन्त गूर्तिभि: ॥

    स्वर रहित पद पाठ

    तम् । वः । सखायः । मदाय । पुनानम् । अभि । गायत । शिशुम् । न । यज्ञैः । स्वदयन्त । गूर्तिऽभिः ॥ ९.१०५.१

    ऋग्वेद - मण्डल » 9; सूक्त » 105; मन्त्र » 1
    अष्टक » 7; अध्याय » 5; वर्ग » 8; मन्त्र » 1

    पदार्थः -
    (सखायः) हे उपासकाः ! (यज्ञैः, स्वदयन्तः) यतो यूयं यज्ञैः परमात्मानं स्तुथ अतः (गूर्त्तिभिः) स्तुतिभिः (तं) उक्तपरमात्मानं (वः, पुनानम्) युष्माकं पावयितारं (शिशुं) शंसनीयं (मदाय) आनन्दाय (अभिगायत) सम्यग्गायत ॥१॥

    इस भाष्य को एडिट करें
    Top