ऋग्वेद - मण्डल 9/ सूक्त 104/ मन्त्र 6
ऋषिः - पर्वतनारदौ द्वे शिखण्डिन्यौ वा काश्यप्यावप्सरसौ
देवता - पवमानः सोमः
छन्दः - निचृदुष्णिक्
स्वरः - ऋषभः
सने॑मि कृ॒ध्य१॒॑स्मदा र॒क्षसं॒ कं चि॑द॒त्रिण॑म् । अपादे॑वं द्व॒युमंहो॑ युयोधि नः ॥
स्वर सहित पद पाठसने॑मि । कृ॒धि । अ॒स्मत् । आ । र॒क्षस॑म् । कम् । चि॒त् । अ॒त्रिण॑म् । अप॑ । अदे॑वम् । द्व॒युम् । अंहः॑ । यु॒यो॒धि॒ । नः॒ ॥
स्वर रहित मन्त्र
सनेमि कृध्य१स्मदा रक्षसं कं चिदत्रिणम् । अपादेवं द्वयुमंहो युयोधि नः ॥
स्वर रहित पद पाठसनेमि । कृधि । अस्मत् । आ । रक्षसम् । कम् । चित् । अत्रिणम् । अप । अदेवम् । द्वयुम् । अंहः । युयोधि । नः ॥ ९.१०४.६
ऋग्वेद - मण्डल » 9; सूक्त » 104; मन्त्र » 6
अष्टक » 7; अध्याय » 5; वर्ग » 7; मन्त्र » 6
अष्टक » 7; अध्याय » 5; वर्ग » 7; मन्त्र » 6
पदार्थः -
हे परमात्मन् ! भवान् (अस्मत्) अस्मद्यज्ञकर्तुः (सनेमि) शाश्वतिक-मैत्रीं (कृधि) उत्पादयतु (कञ्चिदत्रिणम्) कञ्चिदपि हिंसकं (रक्षसम्)राक्षसं (अपादेवम्) दिव्यसम्पत्तिगुणरहितं (द्वयुम्) सत्यासत्यमायायुक्तंमत्तोऽपसारयतु (नः) अस्माकं (अंहः) पापम् (युयोधि) अपहन्तु॥६॥ इति चतुरुत्तरशततमं सूक्तं सप्तमो वर्गश्च समाप्तः ॥