ऋग्वेद - मण्डल 9/ सूक्त 104/ मन्त्र 5
ऋषिः - पर्वतनारदौ द्वे शिखण्डिन्यौ वा काश्यप्यावप्सरसौ
देवता - पवमानः सोमः
छन्दः - निचृदुष्णिक्
स्वरः - ऋषभः
स नो॑ मदानां पत॒ इन्दो॑ दे॒वप्स॑रा असि । सखे॑व॒ सख्ये॑ गातु॒वित्त॑मो भव ॥
स्वर सहित पद पाठसः । नः॒ । म॒दा॒ना॒म् । प॒ते॒ । इन्दो॒ इति॑ । दे॒वऽप्स॑राः । अ॒सि॒ । सखा॑ऽइव । सख्ये॑ । गा॒तु॒वित्ऽत॑मः । भ॒व॒ ॥
स्वर रहित मन्त्र
स नो मदानां पत इन्दो देवप्सरा असि । सखेव सख्ये गातुवित्तमो भव ॥
स्वर रहित पद पाठसः । नः । मदानाम् । पते । इन्दो इति । देवऽप्सराः । असि । सखाऽइव । सख्ये । गातुवित्ऽतमः । भव ॥ ९.१०४.५
ऋग्वेद - मण्डल » 9; सूक्त » 104; मन्त्र » 5
अष्टक » 7; अध्याय » 5; वर्ग » 7; मन्त्र » 5
अष्टक » 7; अध्याय » 5; वर्ग » 7; मन्त्र » 5
पदार्थः -
(इन्दो) हे प्रकाशस्वरूप परमात्मन् ! (मदानांपते) आनन्दानां स्वामिन् !(सः) प्रसिद्धो भवान् (देवप्सराः) दिव्यरूपः (असि) अस्ति (नः) अस्मभ्यं (सखेव, सख्ये) यथा सखा स्वमित्रं (गातुवित्तमः) मार्गं दर्शयति एवं भवानपि मार्गदर्शकः (भव) भवतु ॥५॥