Loading...
ऋग्वेद मण्डल - 9 के सूक्त 107 के मन्त्र
मण्डल के आधार पर मन्त्र चुनें
अष्टक के आधार पर मन्त्र चुनें
  • ऋग्वेद का मुख्य पृष्ठ
  • ऋग्वेद - मण्डल 9/ सूक्त 107/ मन्त्र 2
    ऋषिः - सप्तर्षयः देवता - पवमानः सोमः छन्दः - भुरिग्बृहती स्वरः - मध्यमः

    नू॒नं पु॑ना॒नोऽवि॑भि॒: परि॑ स्र॒वाद॑ब्धः सुर॒भिन्त॑रः । सु॒ते चि॑त्त्वा॒प्सु म॑दामो॒ अन्ध॑सा श्री॒णन्तो॒ गोभि॒रुत्त॑रम् ॥

    स्वर सहित पद पाठ

    नू॒नम् । पु॒ना॒नः । अवि॑ऽभिः । परि॑ । स्र॒व॒ । अद॑ब्धः । सु॒र॒भिम्ऽत॑रः । सु॒ते । चि॒त् । त्वा॒ । अ॒प्ऽसु । मा॒दा॒मः॒ । अन्ध॑सा । श्री॒णन्तः॑ । गोभिः॑ । उत्ऽत॑रम् ॥


    स्वर रहित मन्त्र

    नूनं पुनानोऽविभि: परि स्रवादब्धः सुरभिन्तरः । सुते चित्त्वाप्सु मदामो अन्धसा श्रीणन्तो गोभिरुत्तरम् ॥

    स्वर रहित पद पाठ

    नूनम् । पुनानः । अविऽभिः । परि । स्रव । अदब्धः । सुरभिम्ऽतरः । सुते । चित् । त्वा । अप्ऽसु । मादामः । अन्धसा । श्रीणन्तः । गोभिः । उत्ऽतरम् ॥ ९.१०७.२

    ऋग्वेद - मण्डल » 9; सूक्त » 107; मन्त्र » 2
    अष्टक » 7; अध्याय » 5; वर्ग » 12; मन्त्र » 2

    पदार्थः -
    हे परमात्मन् ! (नूनम्) निश्चयं (अविभिः) स्वरक्षाभिः (पुनानः) पवित्रयन् (परिस्रव) मदन्तःकरणे विराजतां (अदब्धः) भवान् अखण्डनीयः (सुरभिन्तरः) अत्यन्तशोभनीयः, वयं (उत्तरं) अतिप्रेम्णा (गोभिः) ज्ञानवृत्त्या (श्रीणन्तः) तं त्वां साक्षात्कुर्वन्तः (अन्धसा) मनोमयकोशेन (अप्सु) कर्मसु (सुते चित्) साक्षात्काराय (त्वा, मदामः) त्वां स्तुमः ॥२॥

    इस भाष्य को एडिट करें
    Top