ऋग्वेद - मण्डल 9/ सूक्त 11/ मन्त्र 5
ऋषिः - असितः काश्यपो देवलो वा
देवता - पवमानः सोमः
छन्दः - गायत्री
स्वरः - षड्जः
हस्त॑च्युतेभि॒रद्रि॑भिः सु॒तं सोमं॑ पुनीतन । मधा॒वा धा॑वता॒ मधु॑ ॥
स्वर सहित पद पाठहस्त॑ऽच्युतेभिः । अद्रि॑ऽभिः । सु॒तम् । सोम॑म् । पु॒नी॒त॒न॒ । मधौ॑ । आ । धा॒व॒त॒ । मधु॑ ॥
स्वर रहित मन्त्र
हस्तच्युतेभिरद्रिभिः सुतं सोमं पुनीतन । मधावा धावता मधु ॥
स्वर रहित पद पाठहस्तऽच्युतेभिः । अद्रिऽभिः । सुतम् । सोमम् । पुनीतन । मधौ । आ । धावत । मधु ॥ ९.११.५
ऋग्वेद - मण्डल » 9; सूक्त » 11; मन्त्र » 5
अष्टक » 6; अध्याय » 7; वर्ग » 36; मन्त्र » 5
अष्टक » 6; अध्याय » 7; वर्ग » 36; मन्त्र » 5
पदार्थः -
हे परमात्मन् ! भवान् (हस्तच्युतेभिः अद्रिभिः) वाग्वज्रैः (सुतम्) क्षुण्णम् (सोमम्) मम स्वभावं (पुनीतन) पावयतु येन (मधौ) भवदीयमधुरस्वरूपे (मधु) मधुरो भूत्वा (आधावत) प्रवर्तताम् ॥५॥