Loading...
ऋग्वेद मण्डल - 9 के सूक्त 111 के मन्त्र
मण्डल के आधार पर मन्त्र चुनें
अष्टक के आधार पर मन्त्र चुनें
  • ऋग्वेद का मुख्य पृष्ठ
  • ऋग्वेद - मण्डल 9/ सूक्त 111/ मन्त्र 3
    ऋषिः - अनानतः पारुच्छेपिः देवता - पवमानः सोमः छन्दः - अष्टिः स्वरः - मध्यमः

    पूर्वा॒मनु॑ प्र॒दिशं॑ याति॒ चेकि॑त॒त्सं र॒श्मिभि॑र्यतते दर्श॒तो रथो॒ दैव्यो॑ दर्श॒तो रथ॑: । अग्म॑न्नु॒क्थानि॒ पौंस्येन्द्रं॒ जैत्रा॑य हर्षयन् । वज्र॑श्च॒ यद्भव॑थो॒ अन॑पच्युता स॒मत्स्वन॑पच्युता ॥

    स्वर सहित पद पाठ

    पूर्वा॑म् । अनु॑ । प्र॒ऽदिश॑म् । या॒ति॒ । चेकि॑तत् । सम् । र॒श्मिऽभिः॑ । य॒त॒ते॒ । द॒र्श॒तः । रथः॑ । दैव्यः॑ । द॒र्श॒तः । रथः॑ । अग्म॑न् । उ॒क्थानि॑ । पौंस्या॑ । इन्द्र॑म् । जैत्रा॑य । ह॒र्ष॒य॒न् । वज्रः॑ । च॒ । यत् । भव॑थः । अन॑पऽच्युता । स॒मत्ऽसु॑ । अन॑पऽच्युता ॥


    स्वर रहित मन्त्र

    पूर्वामनु प्रदिशं याति चेकितत्सं रश्मिभिर्यतते दर्शतो रथो दैव्यो दर्शतो रथ: । अग्मन्नुक्थानि पौंस्येन्द्रं जैत्राय हर्षयन् । वज्रश्च यद्भवथो अनपच्युता समत्स्वनपच्युता ॥

    स्वर रहित पद पाठ

    पूर्वाम् । अनु । प्रऽदिशम् । याति । चेकितत् । सम् । रश्मिऽभिः । यतते । दर्शतः । रथः । दैव्यः । दर्शतः । रथः । अग्मन् । उक्थानि । पौंस्या । इन्द्रम् । जैत्राय । हर्षयन् । वज्रः । च । यत् । भवथः । अनपऽच्युता । समत्ऽसु । अनपऽच्युता ॥ ९.१११.३

    ऋग्वेद - मण्डल » 9; सूक्त » 111; मन्त्र » 3
    अष्टक » 7; अध्याय » 5; वर्ग » 24; मन्त्र » 3

    पदार्थः -
    (दर्शतः) दर्शनीयं (रथः) शूरगमनं (दैव्यः) दैव्यशक्तियुक्तं (रश्मिभिः)उत्साहरूपकिरणैः  (सं, यतते)  सम्यग्यत्नशीलं भवति (चेकितत्) युद्धविद्याज्ञाता योधः (पूर्वां, प्रदिशं) प्रशस्यगतिं (याति) प्राप्नोति यदा (पौंस्या, उक्थानि)  पुंस्त्वसंबन्धिस्तवनानि  (अग्मन्)  विजेतारं प्राप्नुवन्ति (जैत्राय, हर्षयन्) तदा विजेता मोदयन् (इन्द्रं) स्वस्वामिनंप्राप्नोति  (यत्)  यतः  (समत्सु)  संग्रामेषु  (अनपच्युता, भवथः) अपतितौ  स्वामिसेवकौ  सद्गतिं  लभेते  (च)  अथ  च  (वज्रः) तच्छस्त्रमपि अवर्जनीयत्वात्समरेऽव्याहगतिं लभते ॥३॥ इत्येकादशोत्तरशततमं सूक्तं चतुर्विंशो वर्गश्च समाप्तः ॥

    इस भाष्य को एडिट करें
    Top