Loading...
ऋग्वेद मण्डल - 9 के सूक्त 112 के मन्त्र
मण्डल के आधार पर मन्त्र चुनें
अष्टक के आधार पर मन्त्र चुनें
  • ऋग्वेद का मुख्य पृष्ठ
  • ऋग्वेद - मण्डल 9/ सूक्त 112/ मन्त्र 1
    ऋषिः - शिशुः देवता - पवमानः सोमः छन्दः - विराट्पङ्क्ति स्वरः - पञ्चमः

    ना॒ना॒नं वा उ॑ नो॒ धियो॒ वि व्र॒तानि॒ जना॑नाम् । तक्षा॑ रि॒ष्टं रु॒तं भि॒षग्ब्र॒ह्मा सु॒न्वन्त॑मिच्छ॒तीन्द्रा॑येन्दो॒ परि॑ स्रव ॥

    स्वर सहित पद पाठ

    ना॒ना॒नम् । वै । ऊँ॒ इति॑ । नः॒ । धियः॑ । वि । व्र॒तानि॑ । जना॑नाम् । तक्षा॑ । रि॒ष्टम् । रु॒तम् । भि॒षक् । ब्र॒ह्मा । सु॒न्वन्त॑म् । इ॒च्छ॒ति॒ । इन्द्रा॑य । इ॒न्दो॒ इति॑ । परि॑ । स्र॒व॒ ॥


    स्वर रहित मन्त्र

    नानानं वा उ नो धियो वि व्रतानि जनानाम् । तक्षा रिष्टं रुतं भिषग्ब्रह्मा सुन्वन्तमिच्छतीन्द्रायेन्दो परि स्रव ॥

    स्वर रहित पद पाठ

    नानानम् । वै । ऊँ इति । नः । धियः । वि । व्रतानि । जनानाम् । तक्षा । रिष्टम् । रुतम् । भिषक् । ब्रह्मा । सुन्वन्तम् । इच्छति । इन्द्राय । इन्दो इति । परि । स्रव ॥ ९.११२.१

    ऋग्वेद - मण्डल » 9; सूक्त » 112; मन्त्र » 1
    अष्टक » 7; अध्याय » 5; वर्ग » 25; मन्त्र » 1

    पदार्थः -
    (नः) अस्माकं (धियः) कर्माणि (नानानं) बहुधा भिन्नानि भवन्ति (वैऊँ) अथवा (जनानां) मनुष्याणां (व्रतानि, वि) कर्माणि  बहुविधानि भवन्ति (तक्षा) काष्ठकारः (रिष्टं)  स्वाभिमतकाष्ठं (इच्छति) वाञ्च्छति (भिषक्)  वैद्यः  (रुतं)  रोगचिकित्सामिच्छति  (ब्रह्मा)  वेदवेत्ता (सुन्वन्तं)  वेदविद्यासंस्कृतं  जनं  वाञ्च्छति,  अतः  (इन्दो) प्रकाशस्वरूप परमात्मन् !  भवान्  (इन्द्राय)  सत्यादिगुणसम्पन्नं राज्यमिच्छुमेव जनं (परि, स्रव) अभिषिञ्चतु राजसिंहासने ॥१॥

    इस भाष्य को एडिट करें
    Top